SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०, ख०का० ॥] www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir विशेषे तात्पर्यमुक्तम् । तन्न । तत्रापि शुद्धभावादित्यस्य चोद्यम्य समानत्वात् । मामान्येन प्रवृत्तस्य शङ्खवचनस्य विना कारणं विशेषपरत्वेन मङ्कोचायोगाच्च । यत्तू, अथाशौचापगमदूति सामान्येनोपक्रम्य विष्णुनै कोद्दिष्टविधानादा शौचानन्तरमेव मर्वेरेकोद्दिष्टं कर्त्तव्यमिति । तन्न । विष्णुवचनस्य दशाहाशौ चित्राह्मण विषयत्वेनोपपत्तेः । तम्मादेकादशाहएव क्षत्रियादिभिरप्येकोद्दिष्टं कर्त्तव्यमिति सुष्ठुक्रम्। अथ संगृहीतश्रावनिर्णयः प्रपञ्चाते । ६४६ प्रतोद्देशेन श्रद्धया द्रव्यत्यागः श्राद्धम् । तदुकं ब्रह्मपुराणे“देशे काले च पात्रे च श्रद्धया विधिना च यत् । पितृनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम्” इति ॥ तच पार्श्वणैको दिष्टभेदेन द्विविधम् । पुरुषत्रयमुद्दिश्य यत् कियते, तत् पार्श्वणम् । एकपुरुषोद्देशेन यत् क्रियते, तदेकोद्दिष्टम् । एवं द्विविधमपि श्राद्धं नित्यनैमित्तिककाम्यभेदेन त्रिधा भिद्यते । तत्र जीवनोपाधौ चोदितं नित्यम् । यथा श्रमावस्यादौ चोदितं श्राद्धम् । श्रनियतनिमित्तकं नैमित्तकम् । यथोपरागादौ । कामनो पाधिकं काम्यम् । यथा तिथिनक्षत्रादिषु । वक्त विश्वामित्रेण द्वादशविधत्वमुक्तम्, - “नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं मपिण्डनम् । पार्व्वणं चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थमष्टमम् ॥ For Private And Personal कमी नवमं प्रोकं दैविकं दशमं स्मृतम् । यात्रास्कादशं प्रोकं पुचये द्वादशं मतम् " - इति ॥ तनित्यनैमित्तिककाम्यावान्तरभेदविवक्षयैव न तु ततः पार्थक्य
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy