SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२४ पराशरमाधवः । [३००,या का। शौचकालेनैव दशाहाशौचस्यापि शुद्धिर्विशिष्यते विधीयते । एतदुक्तं भवति । अन्तरा पतितस्याशौचस्य दीर्घकालत्वेऽपि यदि पूर्वप्रवृत्तमाशौचमुत्तराशौचकालादर्डाधिककालं स्थात्, तदा पूर्वप्रवृत्ताशौचकालेनैवोत्तरस्यापि शुद्धिर्भवति। तद्यथा। गर्भपात निमित्तषडहाशौचमध्ये यदि दशाहाशौचमापतेत्, तदा षडहाशौचशेषेणैव दशाहाशौचस्यापि निरत्तिरिति । एवमन्यत्रापि अाधिककालाशौचशेषेणैवाधिककालाशौचस्यापि निवत्तिरवगन्तव्या। ___ अन्तरा पतितस्याशौचस्य शेषेण शद्धिरित्यत्र विशेषो गौतमेनोतः । “रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिः" इति । रानिशब्देनाहोरात्र लक्ष्यते । रात्रिः शेषोयस्याशौचस्य, तस्मिन्विद्यमाने यदाऽशौचान्तरमापतेत्, तदा पूशिौचकालानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः। प्रभाते तस्यारात्रेश्चरमे यामे पुरा सूर्योदयादाशौचमन्त्रिपाते तिसभीरात्रिभिः शद्धिर्न तु पूर्वाशौचकालशेघेणेति । तथा शङ्खलिखिताभ्यामपि। “अथ चेदन्त रा प्रमीयेत जायेत वा शिष्टरेव दिवस: राध्येदहःशेषे द्वाभ्यां प्रभाते तिसृभिः" इति । भातातपेनापि। ___ “राविशेषे यहाच्छुद्धिर्यामशेषे अहाच्छुचिः" इति । बौधायनेनापि । “अथ यदि दशरात्रसन्निपाते यदाद्यं दशरात्रसमाशौचमानवमादिवसात्" इति। अस्यार्थः। यावत्रवमदिवसपरिसमाप्तिस्तावत् न पूर्वाशौचकालशेषेणोत्तराशौचस्य निवृत्तिरिति। नवमशब्देनोपान्यदिवसउपलक्ष्यते । ततश्च क्षत्रियादीनामप्यन्यदिवसाशौचसन्निपाते विरात्रं प्रभाते त्रिरात्रमित्यवगन्तव्यम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy