SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६१8 पराशरमाधवः । [३५०,वा का। "नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं कीर्तितं मभिः पतिते च तथा मृते"-इति ॥ देवलोऽपि; "नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं सूतके प्रोकं शावे वापि तथैव च”-दति ॥ वृहस्पतिरपि, "खाध्यायः क्रियते यत्र होमश्चोभयकालिकः। मायंप्रातर्वैश्वदेवं न तेषां मृतकं भवेत्" इति ॥ संसर्गस्यास्पश्यत्वकर्मानधिकारलक्षणाशौचापादकत्वमन्वयव्यतिरेकाभ्यामुपपादयतिसम्पर्काइष्यते विप्रो जनने मरणे तथा॥१६॥ सम्पर्काच्च निवृत्तस्य न प्रेतं नैव सूतकम्। इति ॥ स्पष्टार्थमेतत् ॥ किञ्च, शिल्पिनः कारुका वैद्या दासीदासाश्च नापिताः॥२० राजानः क्षोचियाश्चैव सद्यःशौचाः प्रकीर्तिताः॥ सव्रतः सचपूतश्च आहितामिश्च योदिजः ॥२१॥ राजश्च सूतकं नास्ति यस्य चेच्छति पार्थिवः॥ उद्यता निधने दाने अात्ती विप्रो निमन्त्रितः ॥२२॥ तदैव ऋषिभिदृष्टं यथा कालेन शुध्यति। इति ॥ शिल्पिनश्चित्रकाराद्याः । कारकाः सूपकारप्रभृतयः। वैद्याश्चिकित्सकाः। होत्रियाः सद्यः प्रक्षालिकाः । तेन चान्द्रायणादिनियमेन For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy