SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [३५०,या का। दिनिस्ता* पतिताः, तेषां तत्मपिण्डैनामि-संस्कारादिकं कर्त्तव्यमित्यर्थः । तथाच ब्रह्मपुराणम्, "स्त्रीणन्तु पतितोगर्भः सद्योयातोम्टतोऽथवा । प्रजातदन्तोमासैवी मृतः षभिर्गतस्तथा । वस्त्राद्यैर्भूषितं कृत्वा न्युप्तव्यस्तु स काष्ठवत् । खनित्वा तु शनभूमि मद्यः शौचं विधीयते” इति ॥ स्त्रीणं योगर्भः पतितः, यश्च जननक्षणएव मृतः, यश्च षण्मासात् प्राङ्मृतः, यश्च षण्मासादूर्द्धमप्यजातदन्तः मन् मृतः, स काष्ठवमिं खनित्वा निक्षेप्तव्यः । मात्रादिव्यतिरिक्तैः मपिण्डैनीशौचादिक कर्त्तव्यमित्यर्थः । विष्णुरपि । “अजातदन्ते वाले प्रेते सद्यएव नामि संस्कारोनोदकक्रिया"-इति । पूर्वत्र गर्भ-पाते सपिण्डानां वधूनां. सद्यः शुद्धिमभिधायाधुना मातुस्तनिमित्तमाशौचमस्तीत्यार, यदि गर्भाविपद्येत सवते वाऽपि योषितः ॥१४॥ यावन्मासं स्थितोगी दिनन्तावत्तु सूतकम्। यदि गर्भस्य खाव-पातौ स्यातां, तदा यावत्सु मासेषु गर्भ: स्थितस्तन्मास-सङ्ख्या-सम-दिनं योषितामातुः मृतकं सत्यागौचमित्यर्थः। तथा च याज्ञवलक्या, "गर्भस्रावे मास-तुल्याः निशाः शुद्धेस्तु कारणम्" इति। माम-तुल्या-निशाः, इति चतुर्थमासप्रमत्यामप्तमावेदितव्यम् । अवाक् तु यथावण विरात्रादयः । तथा च मरीचिः,* विनिःसृताः, इति सा. ना. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy