SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३च, श्रा०का.] परापारमाधवः। ५६१ लचकः । विप्रग्रहणं चण्डालाधुपलवकम् । एतैपादिभिईतानां विधिमन्तरेणात्मत्यागकारिणां ये मंबन्धिनः मपिण्डाः, तेषामन्यवं यावच्छव-दर्शनमाशौचं, न तु दशाहपयंन्तमित्यर्थः। दुर्भूतानामुदकदानादिकमपि नास्ति । तथाच मनुः, "चण्डालादुदकात् मादब्राह्मणाद्वैद्युतादपि । दंदिभ्यश्च पशभ्यश्च मरणं पापकर्मणाम् ॥ उदकं पिण्डदानच प्रेतेभ्येयत् प्रदीयते । नोपतिष्ठति तत् सर्वमन्तरिक्ष विनश्यति ॥ नाशोचं नोदकं नाश्रु न दाहाद्यन्तकर्म च । ब्रह्म-दण्ड-हतानाञ्च न कुर्यात् कट-धारणम्" --इति ॥ ब्रह्मदण्डोब्राह्मणशापः,अभिचारोवा । कटशब्देन शव-वहनोपयोगि-कटादिकमभिधीयते । आपस्तम्बोऽपि, "व्यापादयेद् य श्रात्मानं स्वयमग्न्युदकादिभिः । विहितं तस्य नाशौचं नापि कार्योदकक्रिया" इति ॥ एतच द्धिपूर्वक मरण-विषयम्। अतएव गौतमः । “गो-ब्राह्मणहतानामन्वक्षं राजक्रोधाचाश्वयुद्धे प्रायोऽनाशनशस्त्राग्निविषोदकोइन्धनप्रपतनैश्चेच्छताम्" इति। प्रायोमहाप्रस्थानम्, अनाशनमनशनम्, प्रपतनं भृगुपतनम् । एतैर्बुद्धिपूर्वकं इतानां मपिण्डस्यान्वक्षमाशौचमित्यर्थः । अतश्चैतदुक्तं भवति। मादिना चण्डालादिना वा विग्रहं कुर्वन् यस्तैर्हतः, तस्यैवायं पिण्डदानादि-निषेधः । एवं दुष्टदंयादीन् ग्रहीतुमाभिमुख्येन गच्छतोमरणेऽयमाशौचादिनिषेधः । एवं राज्ञः प्रातिकूल्यमाचरतोमरणे। एवं वाहुभ्यां नदी-तरणेऽपि । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy