SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५६६ पराशरमाधवः विहितत्वात्। उपपन्नश्च तीर्थोपवासाध्ययन-व्याख्यान तात्पर्यनिषेधः, निवृत्तिधर्म-प्रधानत्वात् कैवल्याश्रमस्य । यतः स एवाह, यस्मिन वाचः प्रविष्टाः स्युः कूपे प्राप्ताः शिला इव । न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥ यस्मिन् कामाः प्रविशन्ति विषयेभ्योपसंहृताः। विषया न पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥ यस्मिन् कोधः शमं याति विफलः सम्यगुश्तितः । आकाशेऽसिर्यथा क्षिप्तः स कैवल्याश्रमे वसेत् ॥ यस्मिन् शान्तिः शमः शौचं सत्यं सन्तोष आर्जत्रम् । आकिञ्चन्यमदम्भश्च स कैवल्याश्रमे वसेत् ॥ वृथा प्रलापो यो न स्यान्न लोकाराधने रतः । नान्यविद्याभियुक्तश्च स कैवल्याश्रमे वसेत् ॥ अतीतान्न स्मरेद्भोगांस्तथैवानागतानपि । प्राप्तांश्च नामिनन्देत स कैवल्याश्रमे वसेत् ॥ अन्धवन्मूकवत् पङ्ग-वधिर-क्लोववञ्च यः। आस्ते ब्रजति यो नित्यं स कैवल्याश्रमे वसेत् ॥ उक्तधर्मोपेतं यति प्रशंसति दक्षः, -- “सञ्चितं यद् गहस्थस्य पापमामरणान्तिकम् । निर्दहिष्यति तत् सर्व मेकरात्रोषितो यतिः । संन्यस्यन्तं द्विजं दृष्दा स्थानाञ्चलति भास्करः ॥ एष मे मण्डलं मित्वा परं स्थानं प्रयास्यति” । तदेवं यतिधर्मा निरु पिताः। * नास्त्य यं श्लोकः मु० पुस्तके । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy