________________
Shri Mahavir Jain Aradhana Kendra
तत्र वौधायनः,
पराशर माधवः
५५३
वादम । उक्तरीत्या तयोर्व्यवस्था द्रष्टव्या । तत्र, कूटीचर- वहदकयोस्त्रिदन्ड, हंस- परमहंसयोरेकदन्डः । तथा सति तत्र तत्रो - दाहृतानि वचनानि उपपद्यन्ते ।
तदेवं चतुर्विधः संन्यासी निरुपितः ।
www.kobatirth.org
मनुरपि,
www
Acharya Shri Kailashsagarsuri Gyanmandir
"उषःकाले समुत्थाय शौचं कृत्वा यथाविधि । दन्तान् विमृज्य चाचम्य पर्ववज्र्ज यथाविधि । स्नात्वा चाचम्य विधिवत्तिष्ठन्नासीन एव वा ॥ विभ्रज्जल पवित्रं वाऽप्यक्षसूत्र करद्वये । तद्वत् पवित्रेगोवालैः कृते दुष्कृतनाशने । उदये विधिवत् सन्ध्यामुपास्य त्रिकजप्यवान् । मित्रस्य चर्षणीत्याद्य रुपस्थाय परि त्रिभिः * ।
पूर्व्ववत् तर्पयित्वाऽथ जपेत् सम्यक् समाहितः” - इति ।
अथ तद्धर्मा निरूप्यन्ते ।
" एकएव चरेन्नित्यं सिद्धयर्थं मसहायकः ।
सिद्धिमेकस्य संपश्यन् न जहाति न हीयते" - इति ॥
एकस्यासहायस्य विचरतो रागद्वेषादि प्रतिवन्धाभावात् ज्ञानलक्षणां सिद्धिं निश्चिन्वन् तां सिद्धिं न जहाति तस्यां सिद्धावप्रत्यूहेन
* पवित्रिभिः - इति पाठात्तरम् ।
For Private And Personal