SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५१ पराशरमाधवः तत्र कुटीचरस्य वृत्तिविशेषमाह प्रजापतिः। “कुटीचरो नाम स्वगृहे वर्तमानः शुचिरकलुषः अहिताग्निषु मिक्षां भुजानोऽपगतकाम-क्रोधलोम-मोहोऽहहारवजित आत्माऽनुग्रहं कुरुते”। वृद्धपराशरऽपि । "कूटीचरो नाम पुत्त्रादिभिः कुटी कारयित्वा काम-क्रोध-लोभ-मोहमद-मात्सर्यादीन् हित्वा विधिवत् सन्न्यासंकृत्वा त्रिदण्ड-जलपवित्र-काषायवस्त्र-धारिणः शौचाचमन जपस्वाध्याय-ब्रह्मचर्यध्यान । तत्पराः पुत्रादेरेव मिक्षाकालेऽन्नयाच्चामात्रमुपभुञ्जाना स्तस्यां कुटयां नित्यं वसन्तआत्मानं मोक्षयन्ति" - इति । स्कन्दपुराणेऽपि, - “कुटीचरस्तु सन्न्यस्य से खे सद्मनि नित्यशः। मिक्षामादाय भुञ्जीत स्ववन्धूनां गृहेऽथवा । शिखी यज्ञोपविती स्यात् त्रिदण्डी सकमण्डलुः" - इति । कुटीचरस्याशक्त-विषयत्वाद्युक्तो गृहवासादिः । तदुक्तं वौधायनेन, - "कूटोचराः परिव्रज्य खे खे वेश्मनि नित्यशः। मिक्षां वन्धुभ्य आदाय भुञ्जते शक्ति-संक्षयात्” - इति । बहूदकस्य वृत्ति-विशेषमाह स्कन्दः, - "बहूदकस्तु सन्न्यस्य बन्धु-पुत्रादिवर्जितः। सप्तागारं चरेद् मैक्षमेकान्नञ्च परित्यजेत् ॥ गोवाल-रज्जु-संबन्धं त्रिदण्डं शिक्यमुद्ध तम् । जलपात्र पवित्रच रवनित्रञ्च कृपाणिकाम् ॥ शिखां यज्ञोपवीतञ्च देवताराधनञ्चरेत् ।” – इति । * स्त्रानशौचाचमन, - इति मु० पुस्तके पाठः । । ब्रह्मवर्याध्ययन, - इति मु. पुस्तके पाठः। पुत्रादेव, - इति मु० पुस्तके पाठ। में युञ्जाना, - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy