SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पर शरमाधवः पूर्णमाहवनीये तु जुहुयात् प्रणवेन तत्। *वहन्वाधानमेतत् स्यादग्निहोत्र हुते ततः । स्थित्वा तु गार्हपत्यस्य दर्भानुत्तरतोत्र तु। पात्राणि सादयित्वाऽथ ब्रह्मायतन एव तु । स्तीर्णेषु दर्भेष्वासीत त्वजिनान्तरितेषु वा। जागृयाद्रात्रिमतान्तु यावद् ब्राह्मो मुहुर्तकः । एतामवस्थां सम्प्राम्प मृतोऽप्यानन्त्यमश्रुते॥ अग्रिहोत्र सकाले च हुत्वा प्रातस्तन ततः । इष्टि वैश्वानरों कुर्यात् प्राजापत्यामथापिवा" - इति । आज्यादि-प्राशनानन्तरमग्नि-विहरणात् पूर्व सावित्री प्रवेशं कुर्यात् । तदुक्तं वौधायनधम। ॐ मः सावित्री प्रविशामि तत्सवितुर्वरेण्यं ॐ भूवः सावित्रों प्रविशामि भर्गो देवस्य धीमहि, ॐ सुवः सावित्री प्रविशामि धियोयोनः प्रचोदयादिति अर्द्धर्चशः समस्तया वा - इति । इष्ठिा परिसमाप्याग्नीश्चात्मनि समारोप्य प्रेषमुच्चारयेन् । तदाह कात्यायनः, - “आत्मन्यग्नीन् समारोप्य वेदिमध्ये स्थितो हरिम् । ध्यात्वा हृदि त्वनुज्ञातो गुरुणा प्रेषमीरयेत्” – इति। अथ प्रैषमुच्चार्याभयदानं कुर्यात्। तदुक्त कापिलमते, - "विधिवत् प्रेषमुच्चार्य त्रिरुपांश त्रिरुच्चकैः । अभयं सर्वभूतेभ्यो मम स्वाहेत्यपो भुवि । निर्णीय दण्ड-शिक्यादि गृहीत्वाऽथ वहिब्रजेत्” - इति । * एतत् एवं ब्रह्मा'- इत्यधिकः पाठः मु० पुस्तके । 1 इविष्टि, - इति मु. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy