SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ये देवयाना उत पितृयाणाः सर्वान् पथो अनृणा अक्षियेम" -- इति ॥ व्राह्मणमपि “सर्वान् लोकान् अनृणोऽनुसञ्चरति” - इति । मैवम् । अविरक्तविषयत्वादेतेषां वचनानाम् । अतएव विरक्तस्य प्रव्रज्यायां कालविलम्ब निषेधयति जावालश्रुतिः। “यदहरेव विरजेत् तदहरेव प्रब्रजेतू” - इति । ननु, उक्तरीत्या ब्रह्मचर्यादिषु आश्रमेषु यथावद्धर्मानुष्ठायिनां तदाश्रमात् प्रव्रजेदिति प्रतीयते। तथा सति, स्नातक-विधुरादीनामना श्रमिणामाश्रमिणाञ्च केषाचित् केनचित् प्रतिबन्धेन विदितधर्मानुष्ठायिनां सत्यपि वैराग्ये सन्न्यासो न प्राप्नुयात्। मैवम् । तेषां प्रत्यक्ष-श्रुत्यैव तविधानात्। “अन्य पुनरव्रती वा व्रती वा स्नातकोतू-सन्नाग्निरनग्निको वा यदहरेव विरजेत तदहरेव प्रब्रजेतू" - इति। यमोऽपि, - "पुनरक्रियाभावे मृतभार्यः परिव्रजेत् । वनस्थो धूतपापो वा परं पन्थानमाश्रयेत् ॥” -- इति ॥ स्नातक-विधुरादीनामन्तरालवत्तिनामाश्रम-निरपौ जपोपवास-तीर्थयात्रादिकर्ममिश्चित्तशुद्धि-सम्भवेन मोक्षाश्रमेऽधिकारोऽस्तीति तृतीयाध्याये मीमांसितम् । धर्म-लोपेऽप्यनुतापवतस्तत्-प्रायश्चित्तत्वेन संन्यासः सम्भवति। तथा च स्मृत्यन्तरम्, - “ये च सन्तानजादोषा ये च स्युः कर्म-सम्भवाः। संन्यासस्तान् दहेत् सींस्तुषाग्निरिव काञ्चनम् ॥-इति ॥ मनुरपि, - "मृत्तोयैः शुद्धयते शोध्यं नदो वेगेन शुद्धयति । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमः" ॥ - इति ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy