SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५२६ पराशरमाधवः शङ्ख लिखितावपि, – “पुत्रानुत्पाद्य संस्कृत्य वेदमध्याप्य बृत्ति विधाय दारैः संयोज्य गुणवति पुत्रे कुटुम्वमावेश्य कृतःप्रस्थानलिङ्गोवृत्ति-विशेषाननुक्रमेत् , क्रमशो यायावराणां गृत्तिमुपास्य वनमाश्रयेदुत्तरायणे पूर्वपक्षे” – इति । एतच्चाश्रम-समुच्चय-पक्ष द्रष्टव्यम् । असमुच्चयपक्षे त्वकृत-गार्हस्त्योऽपि वानप्रस्थेधि. क्रियते। तदाह वसिष्ठः, - “चत्वार आश्रमा ब्रह्मचारि-गृहस्थवानप्रस्थ परिव्राजकाः। तेषां वेदमधीत्य वेदं विदित्वा चीर्ण-ब्रह्मचर्यो यमिच्छेत् तमावसेतू”-इति । आपस्तम्वोऽपि,-"चत्वार आश्रमागार्हस्थ्यं आचार्यकुलं मौनं वानप्रस्थम्”- इत्युपक्रम्य, “यत्कामयेत, तदारभेत”-इत्युपसंहरति । वन-प्रतिष्ठस्य कर्त्तव्यमाह याज्ञवल्क्यः , “अ-फाल-कृष्टेनानोश्च पितृन् देवतिथीनपि । भृत्यांश्च तर्पयेच्छश्वज्जटा-लोम-मृदात्मवान* - इति । अ-काल-कृष्टं शाक-मूल-नोवारादि। तथाच मनुः, - "मुन्यन्नविविधैमैध्यैः शाक-मूल-फलेन वा। एतैरेव महायज्ञान् निर्वपेदिधि-पूर्वकम्” -- इति । नच, ब्रह्मचारि-विधुरयोरनग्निकयोर्वनस्थयोः कथमग्नीनां तर्पणमिति वाच्यं, वैरवानस-शास्त्रोक्तस्याग्नेः सद्भावात्। नचाफालकृष्टनोवारादिना पुरोडाश करणे 'व्रीहिभिर्यजेत' - इति श्रुतिर्वाध्येतेति शनीयम् । ब्रोहीणामप्यफालकृष्टानां सम्भवात्। तस्मादकृष्टपच्यैर्वोह्यादिभिर्वैतानिकं कर्म कुर्य्यात्। तथा च मनुः - "वैतानिकञ्च जहूयादग्निहोत्र यथाविधि । दर्शमस्कन्दयन् पर्वं पौर्णमास्यां प्रयोगतः । ऋक्षष्ट्याग्रहावणं चैव चातुर्मास्यानि चाहरेत् । उत्तरायण च* क्रमशोदक्षस्यायनमेवच ॥ * तुलायनन्द, -इति स० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy