SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५२३ सामान्येन च धर्म संक्षिप्याह मनुः, - “येनांस्य पितरो याताः येन याताः पितामहाः। तेन यायात सतां मागं तेन गच्छन्न रिष्यति । यत् कर्म कुर्वतोऽप्यस्य परितोषोऽन्तरात्मनः । तत् प्रयत्नेन कुर्वीत विपरीतन्तु वर्जयेत्” -- इति । इत्य ब्रह्मचारि-गृहस्थाश्रम धम्मी निरूपितौ। ___ अथ वानप्रस्थाश्रमौ निरूप्यते। ननु, केचिद्गार्हस्थ्य-व्यतिरिक्तमाश्रमान्तरं नेच्छन्ति, उदाहरन्ति च तत्र गौतमस्मृतिम्। “एकाश्रम्यन्त्वाचार्याः प्रत्यक्ष-विधानादगार्हस्थ्यस्येति आचार्यास्तु गार्हस्थ्यमेक एवाश्रमो नान्यः कश्चिदस्तोति मन्यन्ते ; हेतु चाचक्षते, गार्हस्थस्य प्रत्यक्ष-श्रुतिष विधानादितरस्य तदभावात् , - इति। तथाहि। वद चाः, 'अग्निमीले',- इत्यारभ्य मन्त्र-व्राह्मणात्मके कृत्स्नेऽपि वेदे होतृकर्तव्यमेवामनन्ति । यजुर्वेदिनश्च, 'इषे त्वा' - इत्यादिना अध्वर्यु-कर्त्तव्यम् । सामगा अपि, 'अग्न आयाहि - इत्यादिनोद्गीतृ कर्त्तव्यम् । होत्रादयश्च गृहस्था एव। तथाचाधीयमानेषु प्रत्यक्ष-वेदेषु गृहस्थ-कर्त्तव्याभिधानेन तदाश्रमविधिः परिकल्प्यते, न त्वेवमितराश्रम विधि-कल्पकं किञ्चित् पश्यामः । अतएव, “याजोवमग्निहोत्र जुहोति” - इति श्रुतिः कृत्स्नं पुरुषायुषं गृहिकर्मस्वेव विनियुङक्ते। श्रुत्यन्तरञ्च "एतद्वै जरा-मयं सत्र यदग्निहोत्र, जरया वा ह्य वास्मान्मुच्यते मृत्युना वा” - इति । न चैवं सति कथं ब्रह्मचर्याश्रमाङ्गीकारः, - इति शडनीयम् । * दुष्यति, - इति मु० पुस्तके पाठः । । विधि कम्चित्, - इति स० सी० पुस्तकयो पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy