SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५२० पराशरमाधवः पक्षद्वयोपन्यासो दर्शितः। उपाकरणस्य गृहस्थधर्मत्वाभ्युपगमे मनु-याज्ञवल्क्य-स्मृत्योहस्थ-धर्म-प्रकरण-पाठोऽप्यनुगृहीतो भवति। उपाकरणस्येतिकर्तव्यता कार्णाजिनिना दर्शिता, - “उपाकर्मणि चोतसर्गे यथाकालं समेत्य च । ऋषोन् दर्भमयान् कृत्वा पूजयेत् तर्पयेत्तंतः", - इति । बौधायनोऽपि, - “गौतमादीनृषीन सप्त कृत्वा दर्भमयान् पुनः । पूजवित्वा यथाशक्ति तर्प येद् वंशमुद्धरन्” - इति । अथोत्सर्जनम् । - तत्र याज्ञवल्क्यः , - “पौषमासस्य रोहिण्यामष्टकायामयापि वा। जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवद्वहिः ॥" - इति। मनुरपि, - "पुष्ये तु चन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः। माघशुक्लस्य वा प्राप्ते पूर्वाह प्रथमेाहनि” – इति । यदा श्रावण्यामुपाकर्म, तदा पुष्यमासस्य शक्लप्रतिपदि पूर्वाह, यदि पौष्ठपद्यामुपाकर्म, तदा माघस्येति व्यवस्थितोऽयं विकल्पः । उत्सृष्टस्यापि पुनरध्ययनं प्रागुपाकरणात् काल-विशेषे विदधाति मनुः, "अतः परन्तु छन्दांसि शुक्लषु नियतः पठेत् । अङ्गानि च रहस्यञ्च* कृष्णपक्षेषु वै पठेत्” – इति । * वेदाङ्गानि रहस्यं च, - इति मु० पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy