SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५०६ पराशरमाधवः शोचन्ति जामयो यत्र (१) विनश्यत्याशु तत्कुलम् । न शोचन्ति तु यत्रता वर्धते तद्धि सर्वदा ॥ जामयोयानि गेहानि शपन्त्यप्रतिपूजिताः । तानि कृत्या-हतानीव विनश्यन्ति समन्ततः ॥ तस्मादेताः सदाभ्या भूषणाच्छादनादिभिः | भूतिकामैर्नर नित्यं सत्कारेषतसवेषु च । सन्तुष्टो भार्यया भर्ता भर्ती भार्या तथैव च । यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्र वम् ॥” - इति । पूज्यत्वञ्चाबृत्ता-व्यतिरिक्तासु द्रष्टव्यम् । अबृत्तायास्तु प्राणधारणमात्र-मोजनम् । तथा च याज्ञवल्क्यः , - "हताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधः शय्यां वासयेद्वयभिचारिणीम्” – इति । यथा विन्ना साध्वी भर्तव्या, तथैवाधिविन्नाऽपि (२)। तदाह स एव, “अधिविन्नाऽपि मर्तव्या, महदेनोऽन्यथा भवेत्” - इति । अधिवेदनं मार्यान्तर परिग्रहः । अधिवेदन-निमित्तान्यपि स एवाह, "सुरापी व्याधिता धूर्ता वन्ध्याऽन्यप्रियम्बदा। स्त्री- प्रसूश्चाधिवेत्तव्या पुरुष द्वषिणी तथा” – इति । (१) जामयोभ्रातृभार्या इति के चेत् । भगिन्य इति केचित् वस्तुतस्तु “जामि तषसकुलस्त्रियोः' - इत्यमरोक्त प्रह्याम् । * भूषणाच्छादनाशनैः, - इति मु० पुस्तके पाठः । सिस्कारेणोत्सवेन च, - इति स० पुस्तके पाठः । (२) एकस्यां स्त्रियां विद्यमानायाम परस्त्रो परिग्रहे कृते पूर्वा स्त्री अधिषिन्नेत्युच्यते। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy