SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ४९८ बौधायनोऽपि, - "त्रीणि वर्षाण्यतुमती यो भाया नोपगच्छति । स तुल्यं भ्र णहत्याया दोषमृच्छत्यसंशयम् । ऋतौ नोपैति यो भा-मनृतौ यश्च गच्छति । तुल्यमाहुस्तयोः पापमयोनौ यश्च सिञ्चति” - इति । पर्ववर्जमित्यनेन निषिद्ध-तिथि-नक्षत्रान्युपलक्ष्यन्ते। निषिद्धपर्व त्वमावास्या पौर्णमासी च तत्र स्त्रीगमनं श्रुत्या निषिद्धम् । -नामावास्यायाञ्च पौर्नमास्याच स्त्रियमुपेयाद् यद्य पेयानिरिन्द्रियः स्यात्” - इति। अन्याश्च निषिद्ध-तिथयोऽष्टम्यादयः । तत्र मनुः, - अमावास्याऽष्टमी चैव पौर्णमासी चतुर्दशी। ब्रह्मचारी भवेन्नित्यमप्यतौ स्नातको द्विजः" - इति । अमावास्यादयो यास्तिथयः, तासु स्त्रीसङ्गत्यागेनेत्यध्याहत्य योजनीयम् । ऋतुकालेऽपि दिनषट्कं वय॑मिति स एवाह, - तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या। त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः' - इति । निषिद्धनक्षत्र याज्ञवल्क्यो दर्शयति, - एवं गच्छस्त्रियं क्षामा मघां मूलञ्च वर्जयेत्” – इति। क्षामा लघ्वाहारादिना कृशामित्यर्थः। अतएव वृहस्यतिरपि स्त्रीपुंसोराहार-विशेषं सनिमित्तमाह, - "स्त्रियाः शुक्रऽधिक स्त्री स्यात् पुमान् पुंसोऽधिके भवेत् । तस्मात् शुक्रविवृद्धयर्थ स्निग्धं हृद्यञ्च भक्षयेत् । लघ्वाहारा स्त्रियं कुर्य्यादेवं सञ्जनयेत् सुतम्” – इति । स्निग्धमन्नञ्च भक्षयेत् , - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy