SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ४९१ यस्तु अढ़ायाः पुनरुद्भगवाहो यम-शातातपाभ्यां दर्शितः, - “वरश्चेत्कुल-शोलाभ्यां न युज्येत कथञ्चन । न मन्त्राः कारणं तत्र नच कन्याऽनृतं भवेतू* ॥ समाच्छिद्य तु तां कन्यां वलादक्षतयोनिकाम् । पुनर्गुणवते दद्यादिति शातातपोऽब्रवीत्" - इति । "हीनस्य कुल शीलाम्यां हरन कन्यां न दोषभाक् । न मन्त्राः कारणं तत्र न च कन्याऽनृतं भवेत्”– इति । कात्यायनोऽपि. “स तु यद्यन्यजातीयः पतितः क्लोवएव वा। विकर्मस्थः सगोत्रो वा दासो दीर्घामयऽपि वा । ऊढ़ापि देया सान्यस्मै स-प्रावरण-भूषणा" - इति । मनुरपि, "नव्टे मृते प्रव्रजिते क्लोवे च पतिते तथा ।। पञ्चस्वापत्सु नारोणां पतिरन्यो विधीयते" - इति । सोऽयं पुनरुद्धाहो युगान्तरविषय। तथा चादिपुराणम् - "दत्तायाः पुनरुद्वाह ज्येष्ठांशं गोवधं तथा। कलौ पञ्च न कुर्वीत भ्रातृजायां । कमण्डलुम्"- इति । यस्तु कन्यादोषमनभिज्ञाय प्रयच्छति, स राज्ञा दण्ड यतव्य :, नारदः "अनास्याय ददद्दोषं दण्ड्य उत्तमसाहसम्'- इति । * नास्तीदमद्ध मु० पुस्तके। । इपि वा,-... मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy