SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६०, शा०का ० ] www.kobatirth.org " पराशरमाधवः । Acharya Shri Kailashsagarsuri Gyanmandir "स्वयं लोकविद्विष्टं धर्ममप्याचारेन तु" - इति । यद्यपि मातुलसुता - परिणयनमुदीच्य-शिष्ट-शर्हितम्, तथापि दक्षिणात्य शिष्टैराचरितत्वेन नाविगीतेोऽयमुदीच्या नामाचारः । न च दक्षिणात्यानां राग- मूलत्वं शङ्कनीयं विधि-निषेध- परीचिकेरेव तद्विवाह करणात् । मातृ-वसुः मुता - विवाहस्तु श्रविगीतेन शिष्टाचारेण गर्हितः । मातुल - सुताविवाहस्यानुग्राहका* श्रुतिः । तत्र मन्द्रवर्णः । “श्रायाहीन्द्र पथिभिरीलितेभिर्यज्ञमिमं नोभागधेयं जुषस्व । तृप्तां जहुर्मातुलस्येव योषा भागस्ते पैतृष्वसेयी वपाम्” – इति । श्रयमर्थः । हे इन्द्र, पथिभिरीलितेभिः स्तुतैः सह नोऽस्माकमिमं यज्ञमायाहि । श्रागत्य च श्रस्माभिर्दीयमानं भागधेयं जुषख, तृप्तामाज्यादिना संस्कृतां वपान्त्वामुद्दिश्य अङ: त्यक्तवन्तः । तत्र दृष्टान्तइयम्। यथा, मातुलस्य योषा दुहिता भागिनेयस्य भाग: भजनीया, भागिनेयेन परिणेतुं योग्या, यथा च पैतृष्वसेयी पोचय भागः । तथाऽयं ते तव भागोवपाऽऽख्य:, - इति । वाजसनेयकेऽपि । " तस्माद्दा समानादेव पुरुषादत्ता चाद्यश्च जायते, उत तृतीये सङ्गच्छावहे चतुर्थे मङ्गच्छाव है" - इति । समानादेकम्मात् पुरुषादन्ता भोक्ता श्रद्य भोग्यः दावप्युत्पद्येते । तौ च मिथः मङ्कल्पयतः, कूटस्यमारभ्य तृतीये चतुर्थे वा पुरुषे मङ्गच्छाव है विवावहै इत्यर्थः । यद्ययमर्थवादः, तथापि मानान्तरविरोधाभावात् स्वार्थे प्रमा एम। विरोधि-वचनानां मातृ-मपिण्डाविषयत्वम्य वर्णितत्वात् । * विवाहस्यानुग्राहिका, - इति पाठोभवितुं युक्तः । + दौहित्रस्य – इति मु० पुस्तके पाठः । + मासपिण्डाविषयत्वस्य च - इति मु० पुस्तके पाठः । For Private And Personal ४७१
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy