________________
Shri Mahavir Jain Aradhana Kendra
एच०, ख०का० 1]
www.kobatirth.org
पराशरमाधवः ।
कारयेदिति स्वार्थिकोणिच् ।
Acharya Shri Kailashsagarsuri Gyanmandir
" ततस्तु नाम कुर्वीत पितैव दशमेऽहनि "
इति विष्णुपुराण - वचनात् । यद्वा पितुरभावे अयोग्यत्वे वाऽन्येन कारयेत् । तदाह शङ्खः, -- “ कुलदेवता - नक्षत्राभिसंबन्धं पिता कुर्य्यादन्योवा कुल-वृद्धः” - इति । भविव्यत्पुराणे, -
" नामधेयं दशम्यां च केचिदिच्छन्ति पार्थिव ।
*
द्वादश्यामथवा रात्रौ मासे पूर्णे तथाऽपरे ॥ अष्टादशेऽहनि तथा वदन्त्यन्ये मनीषिणः " - इति ।
૩૨૨
ग्टह्यपरिशिष्टेऽपि - "जननाद्दशराचे व्युष्टे संवत्सरे वा नामकरएम्” – इति । तच, स्व- गृह्यानुसारेण व्यवस्था । नामधेय स्वरूपञ्च
वर्ण-भेदेन दर्शयति मनुः, -
"माङ्गल्यं ब्राह्मणस्य स्यात् चचियस्य वलान्वितम् । वैश्यस्य धन-संयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ शवद्वाह्मणस्य स्याद्राज्ञोरचा समन्वितम् । वैश्यस्य पुष्टि-संयुक्तं शूद्रस्य प्रेष्य-संयुतम् ॥ स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोरमम् । मङ्गल्यं दीर्घ वर्णन्तमाशीवादाभिधानवत्" - इति । माङ्गल्यादीनि पूर्व-पदानि शर्मादीन्युत्तरपदानि । तथा च,
. नामान्येवंविधानि सम्पद्यन्ते; श्रीशर्मा, विक्रमपालः, माणिक्य श्रेष्ठी, चीनदासः - इत्यादि । स्त्रीणान्तु श्रीदामीत्यादि । सुखोद्यं सुखेन वदितुं
*
सूरयः, – इति मु० पुस्तके पाठः ।
+ शूद्रस्य प्रेष्यसंयुतम् - इति मु० पुस्तके पाठः ।
56
For Private And Personal