________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४३७
पराशरमाधवः।
चा०का.।
चतुर्भिरित मा.महोभिः सदिगतिः ॥ तामामाद्याश्चतस्रस्तु निन्दितैकादशी च या। त्रयोदशी च शेषाः स्युः प्रशस्तादश रात्रयः ।। युग्मासु पुत्राजायन्ते स्त्रियोऽयुग्यासु रात्रिषु ।
तस्माद्युग्मासु पुत्रार्थी संविशेदातवे स्त्रियम्” इति । रजोदर्शनमारभ्य चत्वार्यहानि सद्विगहितानि । युग्मासु समास, संविशेत् गच्छेत् ।
एवमृतौ गर्भाधानं कृत्वा गर्भ-चलनात् पुरा घुमवनं कार्यम् । तचलनं द्वितीये वा ढतीये वा भवति । तदाह वैजवापः,-"मामि द्वितीये वा पुरा स्पन्दते”-इति । पारस्करोऽपि,-"मामि द्वितीये वा हतीये वा यदहः पुंमा नक्षत्रेण चन्द्रमा युक्तः स्यात्" इति। पुं नक्षत्राणि च हस्तादीनि ज्योतिःशास्त्रे प्रसिद्धानि। अनवलोभनमाश्वलायन-ग्रह्यपरिशिष्टेऽवगन्तव्यम् । __ सीमन्तोन्नयनस्य याज्ञवल्क्योक्त-कलादन्येऽपि कालामुनिभिः दर्शिताः। तत्र लोकाक्षिः,-"हतीये गर्भमासे सीमन्तोन्नयन कार्यम्” इति । आपस्तम्वोऽपि,-"प्रथमे गर्भ चतुर्थे मामि"इति। वैजवापोऽपि,-"अथ, सीमन्तोनयनं चतुर्थे पञ्चमे षष्ठे वाऽपि" इति। माझ्यायनग्टह्येऽपि,- “सप्तमे मासि प्रथमे गर्ने सीमन्तोन्नयनम्”-दति। शङ्खोऽपि,-"गर्भ-स्पन्दनमारभ्य सीमन्तोन्नयनं यावदा न प्रसवः” इति। विशेषाश्रवणत् सर्वेऽप्येते विकल्प्यन्ते । एतच मीसन्तोन्नयनं क्षेत्र-संस्कारत्वात् मकदेव कर्त्तव्यं न प्रतिगर्भम् । तथा च हारीतः,
For Private And Personal