SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०या०का०] पराशरमाधवः। ४३५ त्तियोऽपि कृषि कृत्वा देवान् विप्रांश्व पूजयेत् ॥१३॥ वैश्यः शूद्रस्तथा कुर्यात् कृषि-वाणिज्य-शिल्पकम्। इति वाणिज्य-शिल्पयोरपि कलौ वर्ण-चतुष्टय-साधारण्यं दर्शयितुं 'वाणिज्य-शिल्पकम्'-दत्युक्तम् । यद्यपि वैश्यस्य कृषिः पूर्वाध्याये विहिता, तथाप्यत्रेतिकर्त्तव्यता-विधानाय पुनरूपन्यासः । तथा कुर्यात्'--इत्यतिदेशेन ब्राह्मणस्य कृषौ विहितेतिकर्त्तव्यता साऽप्यत्र विहिता भवति, इति ।। यदि शूद्रस्थापि कथ्यादिकमभ्युपगम्येत, तर्हि तेनैव जीवन-मिद्धेः कलौ द्विज-शुश्रूषा परित्याज्येत्याशझ्याह,विकर्म कुर्वते शूद्राः हिजशुश्रूषयोन्झिताः ॥ १४ ॥ भवन्त्यल्पायुषस्ते वै निरयं यान्त्यसंशयम् । इति । लाभाधिकोन विशिष्ट-जीवन-हेतुत्वात् कय्यादिकं विकर्मेत्युच्यते । दिजशुश्रूषया तु जीर्ण-वस्त्रादिकमेव लभ्यते इति न लाभाधिक्यम् । अतोऽधिक-लिप्मया कृप्यादिकमेव कुर्वन्तोयदि द्विज-शुश्रूषां परित्यजेयुस्तदा तेषामैहिकमामुभिकञ्च होयते॥ इत्थं वर्ण-चतुष्टय-साधारणं जीवन-हेतुं धर्म प्रतिपाद्य निगमयति, चतुर्णामपि वाणामेष धर्मः सनातनः॥ १५॥ अतीतेवपि कलियुगेषु विप्रादीनां कृष्यादिकमस्तीति सूचयितुं 'सनातनः' इत्युतम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy