SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८०या० का ० 11 www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir " विप्र - सेवैव शूद्रस्य विशिष्टं कर्म कथ्यते । यदतोऽन्यद्धि कुरुते तद्भवेत्तस्य निष्फलम्” इति । तस्मात् द्विज-शुश्रूषैव तस्य परमोधर्मः, क्षत्रिय - वैश्य-शुश्रूषा तु केवल-वृत्त्यर्थत्वादपरमोधर्मः । अतएव मनुना, विप्र-पूश्रूषाया उभ यार्थत्वमितर- शुश्रूषायाः केवल-वृत्त्यर्धवञ्च दर्शितम्, - "शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्रमाराधयेद्यदि । धनिनं वाऽप्युपाराध्य वैrयं शूद्रो जिजीविषेत् ॥ स्वर्गार्थमुभयार्थं वै विप्रानराधयेत् तु सः * । ४२१ जात - ब्राह्मण-शब्दः स्यात् सा ह्यस्य कृतकृत्यता !" - इति ॥ यदा दिज-शुश्रूषया जीवितुं न शक्नोति तदा किं कुयीदित्यतश्राह - लवणं मधु तैलञ्च दधि तकं घृतं पयः । न दुष्येच्छूद्रजातीनां कुर्य्यात्सर्व्वेषु विक्रयम् ॥६५॥ शुश्रूषया जीवितुमशकेोजीवनाथ लवणादिषु सर्व्वेषु विक्रयं कुर्य्यात् । ननु, लवणादीनि विक्रयमाणानि विक्रेतुर्देषमावहन्ति । तदाह याज्ञवल्क्यः, - "फलोपलक्षौम सेोमनुष्यापूपवीरुधः । तिलोदनरमतारान् दधि चीरं घृतं जलम् ॥ For Private And Personal * ब्राह्मणानेव राधयेत्, - इति शा० स० पुस्तकयेाः पाठः | + जातब्राह्मणशब्दस्य नास्य कृतकृत्यता, इति मु० पुस्तके पाठः । | यदि शुश्रूषया जीवितुं न शक्नोति, जीवनाय लवणादिविक्रयं कुर्य्यात्, - इति मु० पुस्तके पाठः ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy