SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः|| धा.का.। मनुरपि तदेवादौ प्रदर्शयति, "प्रजानां रक्षणं दानमिज्याऽध्ययनमेवच । विषयेवप्रसक्रिञ्च क्षत्रियस्य समादिशत्" इति। शान्तिपर्वष्यपि, "नृपाणं परमोधर्मः प्रजानां परिपालनम्। निर्दिष्ट-फल-भोक्रा हि राजा धर्मेण युज्यते ॥ वर्णानामाश्रमाणाञ्च राजा भवति पालकः । खे खे धर्मे नियुञ्जानः प्रजाः स्वाः पालयेत मदा ॥ पालनेनैव भूतानां कृतकृत्यो महीपतिः । सम्यक् पालयिता भागं धर्मस्थानाति पुष्कलम् ।। यजते यदधीते च यददाति यदर्चति । राजा षड्भाग-भाक् तस्य प्रजा धर्मण पालयन् । सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत् । उत्थानेन प्रसादेन पूजयेचापि धार्मिकान्॥ राज्ञा हि पूजितोधर्मस्ततः सर्वत्र पूज्यते । यद् यदाचरते राजा तत् प्रजानाञ्च रोचते"-इति । मार्कण्डेयपुराले, "वत्म, राज्याभिषिकेन प्रजारञ्जनमादितः ॥ कर्तव्यमविरोधेन खधर्मस्य महीभता । पालनेनैव भूतानां कृतकृत्योमहीपतिः॥ सम्यक् पालपिता भागं धर्मवाप्नोति पुष्कलम्" इति । ब्रह्माण्डपुराणे, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy