SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः। [१०,आका। यथाऽऽतिथ्यकती गोवादीन् न पृच्छत, तथाऽतिथिरपि न ब्रूयात् । तदाह मनः,-- "न भोजनार्थ खे विप्रः कुल-गोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन वान्ताशोत्युच्यते बुधैः"--इति ।। अतिथि-दृष्टान्नेन भिक्षुकथोर्यति-ब्रह्मचारिणोः पूज्यतामाह, अपूर्वः सुब्रती विप्रो हपूर्वश्चातिथिस्तथा । वेदाभ्यासरतानित्यं चयः पूज्या दिने दिने ॥४६॥ सुष्ठु व्रतं सुव्रतं मोक्षहेतुतिधर्मः, मोऽस्यास्तीति सुव्रती यतिः । वेदाभ्यास-रतोब्रह्मचारी, तदर्थत्वात् तस्याश्रमस्य । तावुभौ प्रतिदिनमपूर्वावतिथिवत् पूज्यावित्यर्थः ।तथा च याज्ञवल्क्यः, "मत्रत्य भिक्षवे भिक्षा दातव्या सुव्रताय च"-दूति । नृसिंहपुराणेऽपि*, "भिक्षाच्च भिक्षवे दद्याविधिवद्ब्रह्मचारिणे । यत्पुण्यफलमाप्नोति गां दत्वा विधिवद्गुरोः ॥ तत्पुण्यफलमाप्नोति भिवां दत्त्वा विजाग्यही" - इति । यमः, “मत्कृत्य भिक्षवे भितां यः प्रयच्छति मानवः । गो-प्रदान-समं पुण्यं तस्याह भगवान् यमः" इति । ब्रह्मचारिणं स्वस्तीति वाचयित्वा तद्धस्ते जलं प्रदाय भिक्षा-प्रदानं * मनुरपि, इति मु० पुस्तके पाठः । + वनचारिणे,-इवि शा० स० पुस्तकयोः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy