SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,०का पराशरमाधवः । ३२१ अव्यग्रः' तर्पयेन्नित्यं मन्त्रेणैवाट-नामभिः ॥ पिट-तर्पणं प्रकृत्य पैठीनमिः, “अपसव्यं ततः कृत्वा स्थित्वा च पिढदिमखः । पिढन दिव्यानदिव्यांश्च पिन-तीर्थेन तर्पयेत्” इति । दिव्याः वसु-रुद्रादित्या: अदिव्याः पित्रादयः । योगियाज्ञवल्क्यः, “वस्न रुद्रान् तथाऽऽदित्यान् नमस्कार-समन्वितान्" इति । तर्पयेदिति शेषः । वस्वादीनां नामानि पैठीनसिना दर्शितानि, "ध्रुवोधर्मश्च सोमश्च श्रापश्चैवानिलोनलः । प्रत्यूषश्च प्रभातश्च वसवोऽष्टौ प्रकीर्तिताः । अजैकपादहिब्रनो विरूपाक्षोऽथ रैवतः ॥ इरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः । सावित्रश्च जयन्तश्च पिनाकी चापराजितः । एते रुद्राः समाख्याता एकादश सुरोत्तमाः । इन्द्रोधाता भगः पूषा मित्रोऽथ वरुणोऽर्यमा । अहि? विवस्वान् त्वष्टा च सविता विष्णरेवच । एते वै द्वादशादित्या देवानां प्रवरामताः ॥ एतेच दिव्याः पितरः पूज्याः सर्व प्रयत्नतः" । ततः ख-पित्रादीस्तर्पयेत् । तत्र प्रकारमाह पैठीनमिः, * व्यत्रस्तः, इति शा. पुस्तके पाठः । + बसुरुद्रादयः,-इति म० पुस्तके पाठ । + यमच,-इति म. पस्तके पाठः। चर्चि,-इति म. पम्तके पाठः । 41 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy