________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[१ब.था का।
न खण्डये-वारयेतु पण्डितम्मन्यता तव(१) । श्टणु निर्णयमत्र वं खतः प्रामाण्य-वादिनः । प्रतीतेऽर्थेऽणिलं शास्त्र प्रमाणं बाधया विना(२) । न पराशर-वाक्यस्य बाधः स्मृत्यन्तरे कचित् । ब्रतान्तरोपदेशश्च न बाधोऽस्यानिवारणात्(३) । प्रियङ्ग-कोद्रव-श्रीहि-गोधूमादीन्यनेकशः । साधनानि यथैकस्थास्तृप्तेष्टान्यबाधया। (७)यथा च स्वर्ग एकस्मिन् विश्वजिचाग्निहोत्रकम् । अमिष्टोमच दर्शाद्या हेतवोबहवः श्रुताः । यथा वा ब्रह्मलोकस्य ोकस्य प्राप्ति हेतवः । उपास्तयो विकल्यन्ते शाण्डिल्य-दहरादयः(५) ।
* स्मृताः,-इति स० से. पुस्तकयाः पाठः ।
(१) पूर्वपक्षी शरते हन्तेति । दत्तजलाञ्जलोति विषयव्यवस्थाया अभावे
परस्परविरोधेन सघामेव शास्त्राणामप्रामाण्यापत्तेरिति भावः ।
सिद्धान्ती समाधत्ते न खण्डये इति । (२) प्रामाण्यस्य खतस्त्वात् असतिबाधके प्रतीतेऽर्थे प्रामाण्यं निराबाधं
कारणान्तरापेक्षाविरहादित्यर्थः । स्मत्यन्तरेषु व्रतान्तरोपदेशान्न पराशरोक्तवतस्य बाधः, व्रतान्तरोपदेशस्य व्रतान्तरवाधकत्यासम्भवात् । स्मृत्यन्तरेवपि पराशरोतव्रतादे
निवारणाभावाच । (४) प्रिय प्रतीनां तृप्तिविशेषेषु हेतुत्वात् कथं तत्र विकल्प इत्याशङ्याह
यथा चेति । (५) दृष्टान्तान्तरमाह यथा वेति । शाण्डिल्योपास्तिः, “सव्वं खल्विदं ब्रह्म'
-इत्युपकम्य, “सक्रतुं कुर्वीत मनोमयः प्राण शरीरो भारूप
For Private And Personal