SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०, आ०का ० ।] www.kobatirth.org पराशर माधवः । 40 Acharya Shri Kailashsagarsuri Gyanmandir यथाविध्यपश्राचम्य श्रारोहेद्दर्भ - संस्तरम् ॥ पवित्र पाणिः कृत्वा तु उपस्थं दक्षिणेत्तरम्" - दूति । उदाहृत श्रुतौ सदुपस्पृश्येत्यस्यानन्तरं सव्यं पाणिं पादौ प्रोक्षेदित्यध्याहर्त्तव्यम्, उत्तरस्मिन् फल- वाक्ये तथाऽनुक्रमणात् । “यत् चिराचामेत् - इति, तेन ऋचः प्रीणाति, यद् द्विः परिम्सृजति तेन यजूंषि, यत् सकृदुपस्पृशति तेन सामानि यत् सव्यं पाणिं पादौ प्रोक्षति यच्चिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभते तेनाथवाङ्गिरसेो ब्राह्मणानीतिहासान् पुराणानि कल्पान् गाथा नाराशंसीः प्रीणाति" - इति । दर्भाणामित्यादिश्रुत्यर्थ: शौनकेन दर्शितः, -" प्राग्वोदग्वा ग्रामान्निष्क्रम्या श्रलुत्य शुचौ देशे यज्ञोपवीत्याचम्याक्लिन्नवासा दर्भाणां महदुपस्तीर्य्य प्राकूलानान्तेषु प्रामुख उपविभ्योपस्यं कृत्वा दक्षिणोत्तरी पाणी पादौ मन्धाय पवित्रवन्तौ द्यावापृथिव्योः सन्धिमीक्षमाणः संमील्य वा यथायुक्तमात्मानं मन्येत तथायुक्तो - ऽधीयीत स्वाध्यायं मनसाधीयीत, उत वा दिवा न वा तिष्टन् व्रजन्नासीनः शयाना वा" । मर्व्वथा स्वाध्यायमधीयतैव नत्वङ्गाशक्त्या प्रधानं परित्याज्यमित्यर्थः । ब्रह्मयज्ञे जप्यं श्राश्वमेधिके दर्शितम्, - "वेदमादौ ममारभ्य तथोपर्युपरि क्रमात् । यदधीतान्वहं शक्त्या तत् स्वाध्यायः प्रचक्षते ॥ ऋचं वाऽथ यजुर्वाऽपि मामाथर्वमथापि वा । इतिहास-पुराणानि यथाशक्ति न हापयेत्” इति । ३१३ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy