SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १अ.,या०,का।] पराशरमाधवः । २६६ "गायत्री तु भवेद्रका सावित्री लवर्मिका। सरस्वती तथा कृष्णा उपास्या वर्म-भेदतः ॥ गायत्री ब्रह्मरूपा तु सावित्री रुद्ररूपिणी । सरखती विष्णुरूपा उपास्था रूप-भेदतः""-इति । उपासनमभिध्यानम् । अतएव तैत्तिरीय ब्राह्मणम्,-"उद्यन्तमस्त यन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रमनुते ऽसावादित्यो ब्रह्मेति ब्रह्मव सन् ब्रह्माप्येति यएवं वेद" इति । श्रयमर्थः, वक्ष्यमाण-प्रकारेण प्राणायामादिकं कर्म कुर्वन् यथोक्तनाम-रूपोपेती सन्ध्या-शब्द-वाच्यमादित्यं ब्रह्मेति ध्यायनैहिकमामुभिकञ्च सकलं भद्रमनुते । यएवमुक्त-ध्यानेन शुद्धान्तःकरणो ब्रह्म साक्षात् कुरुते, स पूर्वमपि ब्रह्मैव मन्त्रज्ञानाज्जीवत्वं प्राप्नोति यथोक्त-ज्ञानेन तदज्ञानापगमे ब्रह्मैव प्राप्नोति, इति । व्यासोऽपि एतदेवाभिप्रेत्याह, "न भिन्नां प्रतिपद्येत गायत्रों ब्रह्मणा सह । सोऽहमस्मीत्युपासीत विधिना येन केन चित्" इति । तत्र, प्रातःसन्ध्यायाः काल-परिमाणमाह दक्षः, "रायन्त-याम-नाड़ी द्वे सन्ध्यादिः काल उच्यते। दर्शनाद्रवि-रेखाया स्तदन्तो मुनिभिः स्मृतः” इति । * 'गायत्रीब्रह्मरूपातु,'–इत्यादिः 'रूपभेदतः' इत्यन्तोग्रन्थः मुद्रितातिरिक्तपुस्तकेषु नास्ति । + यथोक्तनामाभिध्येय रूपोपहितं, ---इति म० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy