SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । या०का । "कुश-मूले स्थितो ब्रह्मा कुश-मध्ये जनार्दनः ।। कुशाग्रे शङ्करं विद्यात् त्रयो देवाव्यवस्थिताः” इति । कौशिकः, "एचौ देशे शुचिर्भूत्वा स्थित्वा पूत्तरामुखः । ॐकारेणेव मन्त्रेण कुशाः स्पृश्याद्विजोत्तमैः” इति । उत्पाटन-मन्त्रस्तु, "विरिश्चिना महोत्पन्न, परमेष्ठि-निसर्गजः । नुद पापानि सर्वाणि दर्भ, स्वस्तिकरो मम"-इति । वर्ण-भेदेन विनियोग-भेदमाह कात्यायनः, "हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञिया:(१) । समलाः पिवदैवत्याः कल्माषा वैश्वदेविकाः” इति । कुशाभावे शङ्ख, "कुशाभावे विजश्रेष्ठः काशः कुर्चीत यनतः । तर्पणादीनि कर्माणि काशाः कुश-समाः स्मृताः" इति । यमोऽपि, * विन्द्यात्,-इति म. पुस्तके पाठः। + निसर्गतः, इति शा. पुस्तके पाठः । 1 विनियोगमाइ,-इति शा० पुस्तके पाठः। ६ तत्त्वतः, इति शा० स० पुस्तकयाः पाठः। (१) पाकयज्ञियाः पाकयज्ञे विनियोगाहाः। पाकयज्ञश्च,-"पाकयज्ञा इत्याचक्षत एकाग्नौ यज्ञान् ( 8.६.२)"-इति लायायनीये श्रौतसूत्रे परिभाषितः। “त्रयः पाकयज्ञाः, हुता यमौ हूयमाना अनमो प्रहुता ब्राह्मणमाजने ब्रह्मणि हुताः, (१.१.२-३)"-इति आश्वलायनीये एह्यसूत्रे उक्तम्। "पाकयज्ञाः अल्पयज्ञाः प्रशस्तयज्ञा वा"-इति तत्तौ गार्ग्यनारायणः । पाकयज्ञः पाकाङ्गकयज्ञो घोत्सर्गरटहप्रतिष्ठा होमादिः, इति रघुनन्दनः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy