________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११.पा.का.
पराशरमाधवः।
२२६
मध्यमाङ्गुष्ठ-योगेन स्पृशेनेत्र-इयं ततः॥ अङ्गष्ठ स्थानामिकया योगेन अवर्ण स्पृशेत् । कनिष्ठाङ्गुष्ठ-योगेन स्पृशेत् स्कन्ध-दयं ततः॥ नाभिं च हृदयं तद्वत् स्पृशेत् पाणि-तलेन तु।
संस्पृशेच ततः शीर्षमयमाचमने विधिः" इति । एवमन्येऽप्यन्यथा वर्णयन्ति । तत्र, यथाशाखं व्यवस्था द्रष्टव्या । आचमन-निमित्तान्याह मनुः,
"कृत्वा मूत्र पुरीषं वा पाण्याचान्त उपस्पृशेत् ।
पीत्वाऽपोध्येव्यमाणश्च वेदमग्निं च* मर्वदा" इति । कूर्मपुराणे,
"चण्डाल-क्षेच्छ-सम्भाणे स्त्री-शूट्रोचिष्ट-भाषणे । उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं वाऽपि तथाविधम् ॥ आचामेदश्रुपाते वा लोहितस्य तथैव च । अमेवामथालम्भे स्पृष्ठाऽप्रयतमेव च ॥
स्त्रीणां यथाऽऽत्मनः स्पर्श नीलों वा परिधाय च” इति। स्त्रीशूद्रोच्छिष्टभाषणे, इत्येतरूपादिविषयम् । तथा च पद्मपुराणे,
"चाण्डालादीन् जपे होमे दृष्ट्वाऽऽचामेद्विजोत्तमः" इति। मनुरपि,
* वेदमनच,-इति स. सो. पुस्तकयोः पाठः । + दृष्ट्वा,-इति स पुल के पाठः । 1 तथात्मसंस्पर्श,-इलि मु. पुस्तके पाठः ।
For Private And Personal