SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४४ पराशरमाधवः । ०,बाका. इति । हारीतोऽपि, “मन्त्रार्थ-ज्ञोजपन् जुहत्तथैवाध्यायन् दिजः । स्वर्ग-लोकमवाप्नोति नरकन्तु विपर्यये" ॥ इति । गुरु-मुखादेवाध्येतव्यं नतु लिखित-पाठः कर्नव्यः । तदाह नारदः, "पुस्तक-प्रत्ययाधीतं नाधीतं गुरु-सन्निधौ। भाजते न सभा-मध्ये जार-गर्भव स्त्रियाः" ॥ इति । अध्ययने वर्जनीयानाह मनुः, "नाविस्पटमधीयीत न शूद्र-जन-सन्निधौ । न निशाऽन्ते परिश्रान्ता* ब्रह्माधीत्य पुन: स्वपेत्" । इति । नारदोऽपि, "इस्त-हीनस्तु योऽधीते वर-वर्ण-विवर्जितः । ऋग्यजुः-सामभिद्दग्धोवियोनिमधिगच्छति" ॥ इति । व्यासोऽपि,- . "अनध्यायेवधीतं यद्यच्च शूद्रस्य सन्निधौ । प्रतिग्रह-निमित्तं च नरकाय तदुच्यते” । ॥ इत्यध्ययनाध्यापनयोः प्रकरणे ॥ -- -- * प्रतिश्रान्तो,- इति मु० पुस्तके पाठः । (१) वैदिकानां दिविधा अध्ययनप्रणाली वर्तते, हस्तखरकण्ठखरभेदात् । तदुभयविधखररहितमध्ययनमत्र निन्द्यते,--इति मन्तव्यम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy