________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir करः। नृणां दोषहारी अनादिनिधनः ! मम अघवितापसांत्यै भवतु / इत्यन्वयः / कविर्भगवत्याः श्रीमुखचन्द्रादति सुच्छं लौकिकचन्द्रंपरिहत्य मुखचन्द्रेश्वर्यम् अत्यधिक मत्वा स्तौति हे ईड्ये सर्वदेवेभ्यः अनेकहेतुतस्त्वमेव वरीयसी त्वत्तोधिकाऽन्या देवता नास्ति अतः सर्वेषां योगुणगुरुभवेत् स एव सर्वेषां स्तोतुंयोग्यो भवेत् अत उक्तं हे ईड्ये सर्वेषां देवानां मध्ये सर्वेषां स्तोतुं योग्या / त्वमेवेति भावः।हेशिवे कल्याणरूपे कल्याणदायिनि परब्रह्मरूप योलोकचन्द्रःसतुदिन दीनतरोभवति / हासवृद्धी तस्य भवतः अयं त्वदनचन्द्रः सदा समुदयी हासवृद्विशून्यअहर्निशमेकरसरूपः सौन्दर्यादिगुणसंपन्नः सदोदयी सन्नेव तिष्ठति / पुनर्नृणामपि निता न्तंनित्यमुदयंकरः ज्ञानवृद्धिकरोमङ्गलकरऐश्वर्यधनादिविभूतिरूपमदयंकरश्च भवति स तु द्विजराजः विप्रराजःनक्षत्र पतिश्चाऽस्ति न तु सर्वेषां पतिः अयं तु सकललोकनाथः चतुर्दशभुवनाधिपः राजराजेश्वर इतियावत् तचन्द्रस्यापि नाथ इतिभावः स तु क्षयरोग्यतोऽसमर्थ असं त्वनातङ्कः प्रभुश्च भक्तानामभीष्टदाने परमसमर्थः इतिभावः / स तु दोषाकरःरात्रिकरः अयं ज्ञानदिनकरः सदैवास्ति पुनदोषाणां गुरु स्त्रीगमनादीनांच आकरःखनिःअयं तु गुणाकरविभाकरः गुणाकरश्चासौविशेषेण भाकरश्चेति कर्मधारयः गुणानां नित्योदयसदोत्सव धर्मशीलपरमसुन्दरनिष्कलंकपापतापाघनिष्टहारकःभक्त हत्कंजविकाशकलक्ष्मीदायकाद्यनेकगुणाना माकरःखनीभूतःसन् विशेषेणभाकरःभायाःसर्वतेजसआकरः For Private and Personal Use Only