SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहम् । प्रस्तावना. विदितमेवहि सर्वेषां अद्यतनीया अखिला अपि विपश्चितः स्वस्वदर्शनमूलभूतान् सर्वज्ञकल्पविरचितप्राचीनार्वाचीनकोशप्रकरान् प्रकटयितुमुत्सहन्तः तदनुकूलपरिकरसंपादनाय यतन्तः कोशागारेष्वनुपलभ्यमानानपि महता श्रमेण सम्पादयन्तः लोकोपकाराय मुद्रणादिना प्रकटयन्तः सहदहृदयसंवेद्यान् विदुषां करकमलयोः प्रवेशयन्तीति-वयमपि मुक्तिरमणीपरिरंभितश्रीवर्धमानजिनेशास्यविनिःसृतोपनिषदमृतपानपरि-- पूर्णान्तःकरणाः प्राचीनाहन्मतावलंबिसूरिवरविरचितान् कोशप्रकरान् प्रकटयिषवः इमं पञ्चलिङ्गयाख्यं प्रकरणं सर्वदर्शनकोविदाचार्यर श्रीजिनेश्वरसूरिविनिर्मितं मुद्रापयित्वा भवतां करकमलयोः अर्पयामहे--आचार्याश्चेमे मालवदेशविहारिणां श्रीवर्धमानसूरीश्वराणामंते दीक्षागृ हीतारोऽभवन्निति गणधरशारद्धशतकादवगम्यते । तेषां जन्मस्थानदीक्षावर्षादयो नोपलभ्यन्ते-श्रीवर्धमानसूरीश्वराः अष्टादशभिः स्वशिष्यैः साधुभिर्देशाद्विहरन्तः गूर्जरदेशविख्याताणहिलपुरे विक्रमार्के अशीत्युत्तरे सहस्रपरिमिते (१०८०) वर्षे समागताः तत्र च दुर्लभराजविरचितायां संसदि श्रीवर्धमानसूरीश्वराणां प्रधानशिष्याः श्रीजिनेश्वरसूरयः चैत्यवासिनाचार्येण सुराचार्येण सह कृतशास्त्रार्थाः तं च सुराचार्य पराजित्य राजन्यमणेर्दुर्लभराजात् खरतर इति बिरुदं लब्धवन्त इति For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy