SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र प्राकृतत्वात् प्रथमाया लोपः।१। खाराज्यषट्खण्डवसुधासाम्राज्यादिसुखम् अखिलमपि कृतकतया अनित्यं परिणामदारुणं च, ततो दुःखहेत्वनुषङ्गेण अस्य दुःखपक्षनिक्षेपात् दुःखमेव इदम् इति मन्वानस्य नित्यनिरतिशयानन्दाभिव्यक्ती मुक्तौ आत्यन्तिकोऽभिलाषः संवेगः २। 'अपिचेति' समुच्चये, नारकतियङ्नरामरदुःखानां श्रुतिस्मृत्यनुभवैस्तन्मयम् इवात्मानं मन्यमानस्य, कथम् अमूनि पुनर्मम न आविर्भविष्यन्ति, इति तेभ्यो मानसोद्वेगो निर्वेदः ३। 'तथाचेति, समुच्चये, 'भवति' जायते, अग्रतः सर्वापेक्षया भवन्तीति क्रियायोगेऽपि अत्र भवति, इत्येकवचनान्ततया तदुपादानम् एकैकशोऽपि इमानि साध्यं प्रत्याययितुम् अलमिति ज्ञापनार्थ, तेन इयं क्रिया मध्यवर्तिनी सर्वत्र योज्यते । उपशमो लिङ्गं भवति । एकक एव इत्यर्थः । एवमन्यत्रापि । लाभपूजाधलिप्सया कथम् अमी मिथ्यात्वादिदौस्थ्यात् मोचयिष्यन्त इति, द्रव्यतो भावतश्च परदुःखग्रहाणेच्छा अनुकम्पा ४|| भगवदुक्तागमोपपत्तिभ्याम् एव उपपन्नो जीवादिपदार्थोऽस्ति । न कुतीयाभिहिताभ्यां ताभ्यामिति मति–रास्तिक्यम् । अस्ति जीवोऽस्ति परलोक इति मति-रस इत्यास्तिकः ५। इतीकणन्तो निपातः, तस्य भाव आस्तिक्यम् , 'चियेति' एवकारार्थः, स च अयोगव्यवच्छेदे लिङ्गानि इत्यत्र सम्बध्यते, तेन सम्यक्त्वस्य लिङ्गान्येव एतानि, न तु अन्यथापि, यथाश्रुतिसम्बन्धे तु विशेष्यसम्बद्धस्स एवकारस्य अन्ययोगव्यवच्छेदकत्वेन आस्तिक्यस्यैव एकस्य लिङ्गता स्यात् , नान्येषां, तथाच लिङ्गपञ्चकाभिधानप्रतिज्ञानं विरुध्येत, 'पश्चेति' संख्याभिधानं परस्परानपेक्षाणि एतानि सम्यक्त्वगमकानि, न तु सापेक्षाणि । नापि एषामन्यतरद् इत्यपि शब्दार्थः,। उद्देशेनैव पञ्चसंख्यालाभे 'पञ्च'इत्यवधारणार्थ, पश्चैव लिङ्गानि नत्वन्यानि ।। ननु अन्यानि अपि तानि श्रूयन्ते, तथाच पठ्यते"सुस्सूसधम्मरागो गुरुदेवाणं जहा समाहीए । वेयावच्चे नियमो सम्मदिहिस्स लिंगाई' ? इति चेत् सत्यं तेषामेषु एव अन्त For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy