________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्याय दर्शनवात्स्यायनभाष्ये
विध्य नुवचनञ्चानुवादो विहितानुवचनञ्च, पूर्वः शब्दानुवादोऽपरो
नुवादः । यथा पुनरुक्तं विविध मेयमनुवादोऽपि। किमर्थं पुन वि. हितमनद्यते, अधिकारार्थम्, विहितमधिकृत्य स्तुतिबाध्यते निन्दा वा विधिशेषो वाभिधीयते । विहितानन्तरार्थोऽपि चानुवादो भवति । एवमन्य दम्य त्प्रेक्षणीयम् । लोकेऽपि च विधिरर्थवादोऽनुवाद इति च त्रिविधं वाक्यम्। अोदनं पचेदिति विधिवाक्यम् । अर्थवाद वाक्यमायुर्वचों बलं सुखं प्रतिभानजान्ने प्रतिष्ठितम् । अनुवादः पचतु पचतु भवानित्यभ्यासः क्षिप्रं पच्यतामिति वा, अङ्ग पच्यतामित्यध्ये षणार्थम् । पच्यतामेवेति वाऽवधारणार्थम् । यथा लौकिके वाक्ये विभागेनार्थग्रहणात् प्रमाणत्व मेवं वेदवाक्या नामपि विभागेनार्थग्रहणात् प्रमाणत्वं भवितु. महतीति ॥ नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः॥६५
पुनरुतमसाधु, साधरनुवाद इति अयं विशेषो नोपपद्यते । कस्मात् उभयत्र हि प्रतीतार्थः शब्दोऽभ्य स्यते चरितार्थस्य शब्दसाभ्यासादुभयमसाध्विति ॥
शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ॥६६॥
नानुवाद पुनरुक्तयोरविशेषः । कस्मात् । अर्थ वदभ्यासस्थानुवादभावात् समानेऽभ्यासे पुनरुतमनर्थकम् । अर्शवाजभ्यासोऽनुवादः । शीधतरगमनोपदेशवत् । शीघ्रं शीघ्र गम्यतां शीनतरं गम्यतामिति क्रियातिशयोऽभ्यासेनवोच्चते। उदाहरणार्थञ्चदम् एवमन्येाऽप्यभ्यासः। पचति पचतोति क्रियानपरमः | ग्रामो ग्रामो रमणीय इति व्याप्तिः । परिपरि विगर्नेभ्यो दृष्टा देव इति परिवर्जनम्, अध्यधि कुचं निषणमिति सामीप्यम् । तिनं तितमिति प्रकारः । एवमनवादस्य स्तति निन्दा. शेषविधिष्वधिकारार्थता विहितार्थता चेति । किं पुनः प्रतिषेधहेतद्वारादेव शब्दस्य प्रमाणत्वं न सियति ||
For Private And Personal