SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २ अध्याये २ आङ्गिकम्। यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥७॥ यत्र यत्र संशयपूर्बिका परीक्षा शास्त्र कथायां वा तत्र तत्रैवं संशये परेण प्रतिषिट्वे समाधिर्वाच्य इति । अतः सर्वपरीक्षाव्यापित्वात्प्रथम संशयः परीक्षित इति अथ प्रमाण परीक्षा ॥ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥८॥ प्रत्यक्षादीनां प्रमाणत्व नास्ति बैकाल्या सिद्धेः पूर्वापरसहभावानुपपत्ते रिति । अस्य सामान्यवचनस्यार्थविभागः ॥ पूर्व हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात्यत्यक्षोत्पत्तिः ॥१॥ गन्धादि विषयं ज्ञानं प्रत्यक्षं तद्यदि पूर्वम्, पश्चाहन्धादीनां सिद्धिः, नेदं गन्धादिसन्निकर्षानुत्पद्यत इति ॥ पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥१०॥ असति प्रमाणे केन प्रमीयमाणोऽर्थः प्रमेयः स्यात् प्रमाणेन खल प्रमीयमाणोऽर्थः प्रमेयमित्येत त्मिध्यति ॥ युगपत्सिवौ प्रत्यर्थनियतत्वात् क्रमत्तित्वाभावो बुद्धौनाम् ॥ ११ ॥ यदि प्रमाणं प्रमेयञ्च युगपद्भवतः । एवमपि गन्धादिष्विन्द्रियार्थेषु ज्ञानानि प्रत्यर्थ नियतानि युगपत्यम्भवन्तीति ज्ञानानां प्रत्यर्थनियतत्त्वात् क्रमत्तित्वाभावः । या इमा बुद्धयः क्रमेणार्थेषु प्रवर्त्तन्ते तासां क्रमसित्वं न सम्भवतीति, व्याघात युगपज्ञानानुत्पत्तिर्मनसोलिङ्गमिति, एतावांच प्रमाणप्र मेययोः सद्भाव विषयः स चानुपपन्न इति तस्मात् प्रत्यक्षादीनां ममाणत्व' न सम्भवतीति, अस्य समाधिः उपलब्धिहेतोरुपलब्धिविषयस्य For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy