SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २० www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्याय दर्शनवात्स्यायनभाष्य ज्ञाने प्रत्यासनः व्याहतयोर्हि धर्म्मयोरन्यतरत्तत्त्वं भवितुमर्हतीति स पृथगुपदिष्टेऽप्यसाधनमर्थखेति, प्रमातुः प्रमाणानि प्रमेयाधिगमार्थानि मशक्यप्राप्तिर्न साधकस्य वाक्यस्य भागेन युज्यते प्रतिज्ञादिवदिति प्रयोजनं तत्वावधारणमर्थसाधकस्य वाक्यस्य फलं नैकदेश इति संशयव्युदासः प्रतिपञ्चोपवर्णनम् तत्प्रतिषेधेन तत्त्वज्ञानाभ्यनुज्ञानार्थं न त्वयं साधकवाक्यैकदेश इति प्रकरणे तु जिज्ञासादयः समर्थाः व्यवधारणीयार्थोपकारा अर्थसाधकाभावात्तु प्रतिज्ञादयः साधकवाक्यस्य भागः एकदेशा अवयवा इति । तेषां तु यथाविभक्तानाम् ॥ साध्यनिर्देशः प्रतिज्ञा ॥ ३३ ॥ प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनम् प्रतिज्ञा साध्यनिर्देशः अनित्यः शब्द इति ॥ उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः ॥३४॥ उदाहरणेन सामान्यात् साध्यस्य धर्मस्य साधनं प्रज्ञापनम् हेतुः साध्ये प्रतिसन्धाय धम्मं मुदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः उत्पत्तिधर्मकत्वादिति उत्पत्तिधर्माकमनित्यं दृष्टमिति । किमे नावजेतुलचणमिनि नेत्यच्यते किन्तर्हि ॥ तथा वैधर्म्यात् ॥ ३५ ॥ उदाहरण वैधर्म्याच्च साध्यसाधनं हेतुः कथम् अनित्यः शब्द उत्पत्तिधर्म्मकत्वात् व्यनुत्पत्तिधर्माकं नित्यं यथात्मादि द्रव्यमिति ॥ साध्यसाधर्म्यात् तद्धर्म्मभावो दृष्टान्त उदाहर - णम् ॥ ३६ ॥ माध्येन साधस्य समानव कांता साध्यसाधर्म्यात् कारणात् तदभावो दृष्टान्त इति तस्य धर्मस्तभीः तस्य साध्यस्य साध्यञ्च द्विविधम् धर्म्म - विशिष्टो वा धर्मः शब्दस्यानित्यत्वम् । धर्म्मविशिष्टो वा धर्म्मो नित्यः For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy