SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्यायभाष्थे चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ ११ ॥ कथं चेष्टाश्रयः । ईप्सितं जिहासितं वाऽर्थमधिकत्येमाजिहा. साप्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा चेष्टा मा यत्र वर्तते तच्छरीरम् । कथमिन्द्रियाश्रयः । यस्यानुग्रहेणानुग्टहीतानि उपघाते चोपहतानि खविषयेषु साध्वसाधुषु वर्तन्ते स एषामाश्रयस्तच्छरीरम्, कथभर्थाश्रयः यस्मिन्नायतने इन्द्रियार्थ सन्द्रिकर्षा दुत्पन्नयोः सुखदुःखयोः मतिसंवेदनं प्रवर्तते सएषामाश्रयस्त छारीरमिति | भोगसाधनानि पुनः ॥ घ्राणरसनचक्षुस्त्वक्थोत्राणौन्द्रियाणि भूतेभ्यः ॥१२॥ जिघ्रत्यनेनेति घ्राणं गन्ध ग्टह्वातीति, रसयत्यनेनेति रसनं रसं ग्टहातीति। चष्टेऽनेनेति चक्षु रूपं पश्यतीति, स्पृशत्यनेनेति स्पर्शनम् स्वस्थानमिन्द्रियं त्वक् तदुपचारः स्थानादिति । टणोत्य ने नेति श्रोत्रं शब्दं ग्टह्णातीति एवं समाख्यानिर्वचनसामर्थ्याटुबोध्यम् ख विषययह. णलक्षणानीन्द्रियाणीति | भूतेभ्य इति नानाप्रकतीनामेषां सता विषयनियमो नैकप्रकृतीनां सति च विषय नियमे व विषयग्रहणलचणत्वं भवतीति | कानि पुनरिन्द्रियकारणानि ॥ प्रथिव्यापस्तेजो वायुराकाशमिति भूतानि ॥ ____ संज्ञाशब्दः पृथगुपदेशो भूतानां विभक्तानां सुवचं कार्यम्भविष्यतोति । इमे तु खल ॥ - गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥ १४ ॥ पृथिव्यादोनां यथाविनियोगं गुणा इन्द्रियाणां यथाक्रममर्था विषया इति । अचेतनस्य करणस्य बुद्धेनिं वृत्तिः चेतनस्याकत रुपलब्धिरिति युक्तिविरुद्धमर्थं प्रत्याचक्षाणक इवेदमाह ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy