SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १५६ न्यायदर्शनवात्यायनभाष्य पुनर्जन्म न भवतीत्युच्यते न तु कर्मविपाकप्रतिसंवेदनं प्रत्याख्यायते । सर्वाणि पर्व कर्माणि ह्यन्ते जन्मनि विपच्यन्त इति ॥ न ल शसन्ततः स्वाभाविकत्वात् ॥ ६५ ॥ नोपपद्यते क्लेशानुबन्ध विच्छेदः, कस्मात् क्लेशसन्ततेः स्वामाविक त्वात् अनादिरियं लेशमन्ततिः नचानादिः शक्यः उच्च तुमिति । अत्र कश्चित् परीहारमाह॥ प्रागुत्पत्तेरभावानित्यत्ववत्स्वाभाविकेऽप्यनित्यत्वम् ॥ ६६ ॥ यथाऽनादिः प्रागुत्पत्तेरभाव उत्पन्नेन भावेन निवर्त्य ते एवं खाभाविकी क्लेश सन्ततिरनित्येति ॥ अणुश्यामताऽनित्यत्ववदा ॥ १७॥ अपराह तथाऽनादिरगु श्यामता अथ चाग्निसंयोगादनित्या तथा क्ले शसन्ततिरपीति, सतः खलु धर्मो नित्यत्वमनित्यत्वञ्च तत्त्वभावे भावे भानमिति । अनादिरणुश्यामतेति हेत्वभावादयुक्तम्, अनुत्पत्तिधर्ममनित्यमिति नात्र हेतरस्तीति । अयन्तु समाधिः ॥ न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् ॥ ६८ ॥ कर्मनिमित्तत्वादितरेतरनिमित्तत्वाञ्चेति समुच्चयः । मिथ्यासङ्कयेभ्यो रञ्जनीयकोपनीयमोहनीयेभ्यो रागहषमोहा उत्पद्यन्ते कर्म च सत्त्वनिकायनिबर्तकं नैयमिकान् रागद्देषमोहान् निर्वत यति निय. भदर्शनात, दृश्यते हि कश्चित्मत्त्व निकायोरागबहुल: कश्चिद्देषबहुलः कश्चिन्मोहबहुल इति । इतरेतरनिमित्ता च रागादीनामुत्पत्तिः मूढो. रज्यति, मढः कुष्यति, रक्तोमुह्यति, कुपितोमुह्यति । सर्वमिथ्यासङ्कल्पानां तत्त्वज्ञानादनुत्पत्तिः । कारणानुत्पत्तौ च कार्यानुत्पत्ते रिति, रागादीना For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy