SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १४५ ४ अध्याये १ आह्निकम्। लक्षणव्यवस्थानादेवाप्रतिषेधः ॥ ३६ ॥ न कश्चिदे कोभाव इत्ययुक्तः प्रतिषेधः कस्मात् लक्षण व्यवस्थानादेव यदिह लक्षणं भावस्य संज्ञाशब्दभूतं तदेकस्मिन् व्यवस्थितम् यंकुम्भमद्राचं तं स्पशामि यमेवासानं तं पश्यामीति, नाणुसमूहे ग्टहते इति | अणुसमूहे चाग्टह्यमाणे यहह्यते तदेकमेवेति । अथाये तदनून नास्यको भावो यस्मात् समुदायः । एकानुपपत्ते न स्येव समूहः नास्येकोभावो यस्मात् समूहे भावशब्दप्रयोगः एकस्य चानुपपत्तः समूहो नोपपद्यते । एकसमुच्चयोहि समूह इति व्याहतत्वादनुपपन्न नास्त्येको भाव इति यस्य प्रतिषेधः प्रतिज्ञायते समूहे भाव शब्दप्रयोगादिति हेतुं ब्रुवता स एवाभ्यनुज्ञायते एकसमुच्चयोहि समूह इति समूहे भावशब्दप्रयोगादिति च समूहमाश्रित्य प्रत्येक समूहिप्रतिषेधो नास्येकोभाव इति सोऽयमुभयतोव्याघाताद्यत्किञ्चनवाद इति । अयमपर एकान्तः ॥ सवमभावो भावेष्वितरेतराभावसिद्धेः ॥ ३७ ॥ यावद्भावजातं तत्सर्वमभावः कस्मात् भावेष्वितरेतराभावसिद्धेः असन् गौरश्वात्मनानश्वो गौः । असन्नश्वोगवात्मनाऽगौरश्व इत्यसत्प्रत्ययस्थप्रतिषेधस्य च भावशब्दे न सामानाधिकरण्यात् सर्चमभाव इति प्रतिजरवाक्ये पदयोः प्रतिज्ञाहे त्योश्च व्याघातादयुक्तम्, अनेकस्याशेषता सर्व. शब्दस्यार्थीभावप्रतिषेधश्चाभावशब्दस्वार्थः पूर्व सोपाख्य मुत्तरं निरुपाख्यम् नत्र समुपाख्यायमानं कथं निरुपाख्यमभाव: स्यादिति न जात्वभावो निरूपाख्योऽनेकतयाऽशेषतया शक्यः प्रतिज्ञातमिति, सर्वमेतदभाव इति चेत् यदिदं सर्वमिति मन्यसे तदभाव इति एवं चेदनिवृत्तो व्याघातः अनेकमशेषञ्चेति नाभावात्ययेन शक्यं भवितुम्, अस्ति चायं प्रत्ययः सर्वमिति तस्मान्नाभाव इति, प्रतिज्ञाहेत्वोश्च व्याघातः सर्वमभाव इति भाव प्रतिधेधः प्रतिज्ञा भावेष्वितरेतराभावसिद्धेरिति हेतः । भाववितरेतराभावमनुज्ञायाश्रित्य चेतरेतराभावसिद्ध्या सर्वमभाव इत्युच्यते यदि सर्वमभा For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy