SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। अथ कपोललक्षणम्-- शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ । रोमशौ परुषौ निम्नौ निर्मासौ परिवर्जयेत् ॥ ८७ ॥ यस्यास्तु हसमानाया गण्डे भवति कूपकः । न सा भर्तृगृहे तिष्ठेत्स्वच्छन्दा कामचारिणी ॥ ८८॥ इति अथ अथास्यलक्षणम्--- समं समांस मुस्निग्धं सामोदं वर्तुलं मुखम् । जनितवदनाच्छाधं धन्या नारीह जायते ॥ ८९॥ अथाघरलक्षणम् पाटलो वर्तुलः स्निग्धो लेखाभूषितमध्यभूः । सीमन्तिनीनामधरो धराजानिप्रियो भवेत् ॥ ९० ॥ श्यावः स्थूलोऽधरौष्ठः स्याद्वैधव्यकलहप्रियः । रोमशौ चातिलम्बौ च यस्या ओष्ठपुटौ पुनः । विषमौ चातिस्थूलौ च पतिघ्नी वनिता भवेत् ॥ ९१ ॥ इति अथ दन्तलक्षणम् गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाः शुभाः । अधस्तादुपरिष्टाच्च समाः स्तोकसमुन्नताः ॥ ९२ ॥ पीनाः श्यावाश्च दशनाः स्थूलदीर्घा द्विपङ्क्तयः । शुक्लाकाराश्च विरला दुःखदौर्गत्यकारणम् ॥ ९३ ॥ अधस्तादधिकैर्दन्तैर्मातरं भक्षयेत्स्फुटम् । पतिहीना च विकटैः कुटिला विरलैर्भवेत् ।। ९४ ॥ इति भथ जिह्वालक्षणम् जिद्वेष्टमिष्टभोक्त्री स्याच्छोणा मृद्वी तथा सिता। . दुःखाय मध्यसंकीर्णा पुरोभागे सुविस्तरा ॥ ९५ ।। सितया तोयमरणं श्यामया कलहप्रिया । दरिद्रा स्यान्मांसल[९९ब]या लम्बया भक्ष्यभक्षिणी ॥ विशालया रसनया प्रमदार्तिप्रसादभाक् ।। ९६ ॥ इति For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy