SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३५ नौतिकल्पतरूः। अथ नितम्बलक्षणम्-- नितम्बबिम्बो नारीणामुन्नतो मांसलः पृथुः । महाभोगाय संप्रोक्तस्तदन्यो शर्मणे मतः ॥ २८॥ इति अथ स्फिग्लक्षणम् कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ धनौ। स्फिजौ वलिविनिर्मुक्तौ रतिसौख्यविवर्धनौ ॥२९॥ इति अथ भगलक्षणम्-- शुभः कमठपृष्टाभो गजस्कन्धोपमो भगः। वामोनतस्तु कन्यादः पुत्रदो दक्षिणोनतः ॥ ३० ॥ आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः । तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः ॥ ३१ ॥ निर्मासं चातिदीर्घश्व भगं शुष्कं सिरायुतम् । दारिद्रपदुःखदं तत्स्याहौर्भाग्यं चैव निर्दिशेत् ॥ ३२ ॥ शशावर्त भगं यस्या सा गर्भमिह नेच्छति । आवर्तस्तु भवेद्यस्वा भगस्योपरि मस्तके ॥ तस्या विवर्धते पुत्रो धनधान्यसमन्वितः ॥ ३३॥ गुधान्ते तिलकं यस्या रक्तं कुंकुमसनिभम् । अथवा दक्षिणे भागे प्रशस्ता सा निगद्यते ॥ ३४ ॥ इति भय जघनलक्षणम् भगस्य भालं जघनं विस्तीर्ण तुङ्गनासिकम् । मृदुलं मृदुरोमाढयं दक्षिणावर्तमीरितम् ॥ ३५ ॥ वामावतं च निर्मासं भुग्नं वैधव्यसूचकम् । संकटं स्थपुटं गूढं जघनं दुःखदं सदा ॥ ३६ ॥ इति अप बस्तिलक्षणम् बस्तिः प्रशस्ता विपुला मृद्वी स्तोकसमुन्नता । रोमशा च सिराला च रेखाया नैव शोभना ।। ३७ ॥ इति For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy