________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
• नीतिकल्पतरः।
धीदक्ष इति धीग्रहणं शीघ्रं चातुर्येण तात्पर्यज्ञता सूचनाय, रोम्णां च समत्वं शुक्लकृष्णरक्तवर्णसाम्यमिति । [८९ब] अथालिकलक्षणम्
अरीखं दीर्घालिकं वा...'...चको मन्दधीधनः । असत्यवागस्वल्पायुर्दुःखभाक् चापि जायते ॥ २६ ।। घटवत्संवृतं यस्य ललाटं चापि वामनम् । स नरो नीचकर्मा स्यात्कृपणश्चातुरस्तथा ॥ २७ ॥ अर्धेन्दुसदृशाकारं च्छत्राभं ...' भजाम् ।
अत्युन्नतं चमूपानां संपुटं क्रूरकर्मणाम् ॥ २८ ॥ संपुटं निम्नम् ।
समं च दीप्यमानं यदेखाभिस्तच्छुभोदयम् । . प्रेमस्वधीकथाशास्त्रचातुर्याय' मनीषिणाम् ॥ २९ ॥ विषमेण ललाटेन नराः स्युर्दुःखजर्जराः । प्राप्नुयुर्वधबन्धं तु बलात्ते क्रूरकर्मणा ॥ ३० ॥ सिराभिः सन्ततं यस्य ललाटं सोद्यवान्भवेत् । उन्नताभिस्त्रिशूलाब्जस्वस्तिकामाभिरुन्नताः ॥ ३१ ॥ त्रिरेखाभिललाटान्तगामिनीभिः समाः शतम् । जीवेश्चतसृभिजूनं नवत्यब्दान् सपश्चकान् ॥ ३२ ॥ पञ्चभिः सप्ततिं द्वाभ्यां चत्वारिंशतमेकया ।
विंशतिं ताश्च पञ्चाया सरेखेणापि जीवति ॥ ३३ ॥ उन्नताः परागस्य...' चतसृभिरित्यादावपि ललाटान्तगामिनीभिरिति संबध्यते ।
अत्रापि कोचद्यस्य स्युः समाः कर्णान्तगोचराः । पश्चरेखागभीरश्च सुरोऽसौ शतजीव्यपि ॥ ३४ ॥ रेखाणां लक्षणमिदं दीर्घाणां परिकीर्तितम् । वर्षा च वक्रताहासस्तथाधिक्येन वामतः ॥ ३५ ॥
1 Corrupt.
For Private and Personal Use Only