SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५ नीतिकल्पतः। नालसाः प्राप्नुवन्त्याः न च दैवपरायणाः । तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ' ॥१९॥ इति पुंस्त्रीलक्षणशाखायां दैवपौरुषकालानुस्यूतता. भिधानाभिधः स्तबकः। [११२] इति प्रारब्धं पौरुषकालनिमित्तेन सफलं साम्प्रतिकं तु पौरुषं तत्समर्पितबुद्धिशिखोन्नतशीर्षाणां मनुष्याणामिहान्यत्सर्वं पश्चात्कृत्य फलति । प्रारब्धातिवाहनं केवलं नतमस्तकानां पशुजातीनामिति सि[८८अद्धम् । इति सम्यगालोचितोऽयं लक्षणविभागो न व्यभिचरतीति च स्थिते । यथादृष्टमिदं सम्यग्विविच्य च विविच्य च । सामुद्रिकं विनेयानां शिक्षायै दर्श्यते मया ॥ १ ॥ तथा च विक्रमादित्यभूपतेर्वसरे किल । बुधैः कैग्निदियं दृग्जाविद्या सोऽवर्तयद्यया ॥२॥ वसर इति भागुरिमतेनावोपसर्गस्याकारलोपेऽवसरे इत्यर्थः । स विक्रमादित्यः । उदाहृतं चात्र जातु खर्वः कश्चिद् सभामितः । पीडितोऽस्मीत्यवेत्युक्तिं चक्रेऽस्य विनयान्वितः ॥ ३॥ सभामितः सभां प्राप्तः, न्यायस्थानीमागत इति यावत् । अस्य विक्रमादित्यस्य । स विलोक्य तले मिथ्यावाद्यसौ क्रियतां बहिः । इत्याज्ञप्य सदोध्यक्षान्बोधयामास सादरम् ॥ ४ ॥ उक्तं च वैद्यविद्यायां खो जाल्मः कुनीतिभाक् । रन्ध्रच्छलनिमित्तानुधावी खर्वः प्रकीर्तितः ॥ ५॥ निश्चितं चामुना कश्चित्पीडितः स्याद्विपर्ययात् । आत्तौसावौचितीयं सा खर्वस्येति निशम्यताम् ।। ६ ॥ इयमौचिती दूरनिष्कासनामिका । विलोक्यतां च संवादात्प्रत्यक्षीक्रियतामिदम् ॥ ७ ॥ निशम्य विस्मितास्ते च संवाद्य कृतनिश्चयाः । तथोपलभ्य राजानं मोदयामासुरादरात् ॥ ८॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy