SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। तथा विषमपर्वाणाः फलैश्च व्रजवर्जितैः । एकत्रिपुङ्खः कर्तव्यो राजहंसच्छरोत्तरः' ।। ४ ।। रुक्मपुङ्खः सुवर्णाग्रोऽप्ययाफलसुभूषितः' । स्नायुबद्धं बलं तस्य रुक्मबद्धं च कारयेत् ॥ ५॥ वर्णैश्च लक्षणोपेतैश्चित्रितं तं प्रकल्पयेत् । ग्रहणं तस्य कर्तव्यं सांवत्सरकरान्नुपैः ॥ तस्यार्चा च सदा कार्या साभिषेकसमा भवेत् ॥ ६ ॥ इति शरलक्षणाख्यं कुसुमम् । अथ धनुर्लक्षणम् (८१) शृङ्ग दारु च लोहं च धनुर्द्रव्यं गुणस्य च । वंशत्वम्भङ्गचर्माणि वाशे ये च त्वचो गुणाः ॥ १ ॥ अन्ययोश्चर्मभङ्गोत्थो नो मानं शार्ङ्गलौहयोः । दारुचापश्चतुर्हस्तस्तद?नस्त्रिधा मतः श्रेष्ठादिभेदात्तन्मध्यं वृत्तं मुष्ट्यर्हमुच्यते ॥ २॥ गुणस्य चेति गुणस्य ज्याया अपि द्रव्यं त्रितयमिति शेषः । तदाह वंशत्वगिति । तत्र वंशरचिते धनुषि वंशत्वगेव गुणः अन्ययोस्तु शार्ङ्गलौहयोश्चर्ममयो वंशभङ्गोत्थो वेति । अन्यत्स्पष्टम् ।। स्वल्पा कोटिस्तु वार्धाणां शार्ङ्गलोहमये पुनः । कामिनीभूलताकारा कोटिः कार्या सुसंस्कृता ॥ ३ ॥ पृथग्वा दारुमिश्रे वा लोहशाङ्गै तु कारयेत् । शार्ङ्गस्नायुचितं कार्य रोक्यबिंदुविभूषितम् ॥ ४ ॥ विद्युद्दग्धादि वृक्षोत्थं काष्ठं यत्नेन वर्जयेत् । सजातिहतशृङ्गं च लौहं तत्स्याच्चतुर्विधम् ॥ ५॥ स्ववर्ण रजतं तानं कायसमथापि वा। सरत्नं तत्र सौवर्ण शाङ्ग त्रिविधमुच्यते ॥ ६ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy