SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ नीतिकल्पतरूः। [८४] न धूतैरिति ।:- धूर्तेः सह सङ्गो न कदापि धार्यः । तत्सङ्गस्येहामुत्रापि सर्वथानर्थदायित्वात् । तद्विहितशास्त्राणामसच्छास्त्रत्वात् । ते च चार्वाकबौद्धकापालिकादिभेदेनानेकविधाः । तच्छ्वणस्याप्यद्यावहत्वाद्विनेयबोधार्थ किंचिन्मात्रे तन्मतं प्रदर्श्यते । तथा च भारतीनूपुरझांकारे किंचिन्मात्रेण प्रदर्शितम् । तत्रादौ चार्वाकमतम् : भूतचतुष्कं तत्त्वान्यथ मानं चैकमध्यक्षम् । मदशक्ति यत्परस्परयोगे चैतन्यमात्मनो भवति ॥ १ ॥ परलेककथा व्यर्था नो दृष्टा दग्धतरुफलोत्पत्तिः । मरणं मुक्तिर्जागृतत्यक्तभयाश्चेति चार्वाकाः ॥ २ ॥ अब जैनमतम् । -- दोषाष्टादशरहितो जिनदेवस्तत्त्वदर्शको येषाम् । तन्मतमभिधास्येह य आर्हताः क्षपणकाश्चोक्ताः ॥ ३ ॥ वादोपवर्गमार्गश्चारित्रं ज्ञानदृक्प्रमाणे द्वे । स्पष्टास्पष्टतया खलु जगद्विधा सप्ततत्वानि ॥ ४ ॥ जीवाजीवानवसंस्रवनिर्जरबंधमोक्षनामानि- । द्वावाद्यौ सं[ ६१ब ]क्षेपाव्यासः पंचास्तिकायाद्याः ॥ ५ ॥ बन्धोऽष्टविधो द्वेधा तन्मुक्तिर्मुक्तिरुच्यते नित्या । अन्तर्भावाद्धर्माधयोर्न युक्तं च नवधात्वम् ॥ ६॥ त्रय एते लुचितमूर्धजाश्च भैक्षाशिनः क्षमाशीलाः । अथवा शयपत्रास्ते प्रोक्ता जिनसाधवो नाम ॥ ७ ॥ सह योपयाशनमियं नो मुक्तिं चरति केवला जातु । महदुपपदशुक्लांबरभिक्षूणां भिन्नता सैषा ॥ ८॥ दीप इवात्मा मान्योऽस्मिन्गृहमध्ये नवद्वारे । आत्मा मलस्वभावो व्यर्था शुद्धिर्वरं सुखाचरणम् ॥ ९॥ - - - 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy