________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः । ताहनराधमो लोके वर्जनीयो नराधिप ॥ ६॥ न स रात्रौ सुखं शेते ससर्प इव वेश्मनि । यः कोपयति निर्दोष सदैवाभ्यन्तरं जनम् ॥ ७ ॥ ये तु स्रीषु समासक्ताः प्रथमोत्पातितेष्वपि ।
ये चानार्यसमसक्ताः सर्वे ते संशयं गताः ॥ ८ ॥ प्रथमोत्पातितेषु प्रथमस्थानाच्चालितेषु ।।
यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता । मज्जन्ते तेऽवशा देशा नद्यामश्मप्लवा इव ॥९॥ यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः । यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ १०॥ अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्धयवज्ञानमवमानं च भारत ॥ ११ ॥ परापवादनिरताः परदुःखोदयेषु च ॥ परस्परविरोधेषु यतन्ते सततोत्थिताः ।। १२ ॥ सदोषं दर्शनं तेषां संवासात्सुमहद्भयम् । अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ १३ ॥ ये पापा इति विख्याताः संवासैः परिगर्हिताः । युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥ १४ ॥ निवर्तमाने सौहार्दै प्रीतिर्नीचे विनश्यति । या चैव फलनिष्पत्तिः सौहार्दै चैव यत्सुखम् ॥ १५ ॥ यतते चापवादाय यत्नमारभते क्षये । स्वल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति ॥ १६ ॥ निशम्य निपुणं बुद्धया विद्वान्दूराद्विवर्जयेत् । तादृशं संग[४९ब]तं नीचैर्नृशंसैरकृतात्मभिः ॥ १७ ॥ अगारदाही गरदः कुण्डाशी सोमविक्रयी । पर्वकारी च सूची च मित्रध्रुक्पारजापिकः ॥ १८॥
For Private and Personal Use Only