SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५२ निशीचसूत्र सूत्रम् - जे भिक्खू लवगवेसियं पडिग्गहं धरेइ धरतं वा साइज्जइ ॥ छाया - यो भिक्षुर्लवगवैषितं प्रतिग्रहं धरति घरन्त वा स्वदते ॥ सु० ३१ ॥ चूर्णी - 'जे भिक्खू, इत्यादि । 'जे भिक्खू, यो भिक्षुरित्यादि पूर्ववत् । नवरम् - 'लवगवेसियं, लवगवेषितम् तत्र - वो नाम - यो दानफलं दर्शयित्वा वस्त्रपात्रादिकमुत्पादयति, तादृशः पुरुषो लव इति कथितो भवति, तेनान्विष्यानीतम् । यो हि भिक्षुर्वस्त्रपात्रादिस्वामिनं वस्त्रपात्रादिदानस्य फलं श्रावयित्वा तस्माद्वत्रपात्रादिकमादते दापयति चान्यस्मै । तथा-यथकव्यापारेणाऽऽददानमन्यमनुमोदते स प्रायश्चित्तभागिति भावः ॥ सू० ३१ ॥ भाष्यम् - दाणफलं तु दंसीय, आदेइ दावए खलु । वत्थपायाइंगं नूणं, तारिसो लव बुच्चइ ॥ छाया - दानफलं तु दर्शयित्वा आदते दापयेत्खलु । वस्त्रपात्रादिकं नूनं तादृशो लब उच्यते ।। अवचूरि : - - ' दाणफलं' इत्यादि । यो भिक्षुः दानस्य फलं दर्शयित्वा वस्त्रपात्रादिकमादत्ते - आनयति लोकेभ्यः, दापयति चाऽन्यस्मै स लव उच्यते - कथ्यते । तत्र दानं द्विविधम्लौकिकं लोकोत्तरं च । लोकमुद्दिश्य यद्दीयते तल्लौकिकम् । कर्मनिर्जरार्थं दातव्यमितिबुद्धया पात्राय महाव्रतधारिणे यद्दानं तल्लोकोत्तरम् ॥ सू० ३१ ॥ सूत्रम् - - जे भिक्खू णितियं अग्गपिंडं भुंजइ भुजंतं वा साइज्जइ ॥ छाया -यो भिक्षुनैत्यिक- अग्रविण्डे भुङ्क्ते मुजम्स वा स्वदते ॥ सू० ३२ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं' नैत्यिक नियतं वा, तत्र नैत्यिकं प्रतिदिनम्, नियतं नियतकालप्रतिबद्धं यथा कस्मिंश्चिद् गृहे कचित् दिनद्वयमन्तरा - कृत्य दिनत्रयादिकं वा व्यवधानीकृत्य नियमतो गमनं नियतशब्दार्थः । 'अग्गपिंड' अप्रपिण्डम् अग्रः प्रधानः पिण्डः– अग्रपिण्डस्तम्, अथवा भोजनात्पूर्वं यो निष्कास्यते सः तम् अग्रपिण्डम् । यदा तदा साधुभ्योऽन्नपानवितरणकाले अग्रपिण्डं भुङ्क्ते भुञ्जन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवतीति ॥ सू० ३२ ॥ भाष्यम् - निमंतणं उत्पीलणं, परिमाणं सभावियं । Acharya Shri Kailassagarsuri Gyanmandir आइल्ला तिष्णि नो कप्पे, कप्पेज्जा व वउत्थगं ॥ छाया --- मिमन्त्रणमुप्पीलणं परिमाणं स्वाभाविकम् । भाद्यास्त्रयो न कल्पन्ते कल्पते च चतुर्थकम् ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy