SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशिथसूत्रे पदमग्गो हि सोवाणं, तं दुहा परिकित्तियं । तज्जायं च अतज्जाय, संबद्धं च तहेयरं ॥ छाया-पदमार्गः संक्रमश्च, आलम्बनं तथैव च । त्रिविधमपि कुर्याद भिक्षः, आशाभङ्गादि प्राप्नोति ।। पदमार्गो हि सोपानं तद् द्विधा परिकीर्तितम् । तज्जातं च मतज्जातं संबद्धं च तथेतरत॥ अवचूरिः- यो भिक्षुः पदमार्ग संक्रमम् मालम्बनं चेति त्रिविधमपि कुर्यात् स आज्ञाभङ्गानवस्थादिदोषान् प्राप्नोति ॥१॥ 'पदमग्गो' इत्यादि । 'पदमग्गो' पदमार्गः-पदानां मार्गः पदमार्गः पदस्थापनमार्गः सोपानम्-यद्वारा जलार्द्रमार्गमुल्लङ्घयावतीर्यते प्रत्यवतीयते च स सोपान-मित्युच्यते, तद् द्विप्रकारकं परिकोतितं-कथितम् , तत्र तज्जातं प्रथमम् , अतज्जातं द्वितीयम् । तत्र-तज्जातं सोपानम् पृथिवीमेव खनित्वा संपादितम् । अतजातमिष्टकाप्रस्तरादिभिः संपादितम् । पुनरपि तद् द्विप्रकारकम् संबद्धमसंबद्धं च । वसतिसंबद्धं प्रथमम् , द्वितीयमसंबद्धं वसत्याः । तत्पुनः सोपानं विषमे कर्दमे वा उदके वा हरितादितृणप्रायेषु स्थानेषु वा क्रियते इति । संक्रम्यते येन स संक्रमः काष्ठेष्टकादिसंपादितसोपानविशेषः । अयं च संकमो विषमकर्दमादिषु संपादितो भवति । आलम्बनं च-विषमकर्दमाधुल्लछनार्थमेव दवरिकादि क्रियते । एतेषु पदमार्गादिषु मध्याद् यद्येकमपि पदमार्गादिकं भिक्षुः स्वयं करोति परद्वारा वा कारयति, कुर्वन्तं-कारयन्तं वाऽनुमोदते स आज्ञाभङ्गादिकान् दोषान् प्राप्नोति । तत्र सोपाने स्वयमन्यो वा यदि कोदालादिना पृथिवीं खनति तदा षड्जीवनिकायानां विराधना भवति । यदि पृथिवी कदाचिदचित्तापि भवति तथापि तस्याः खनने कृते वनस्पतिकायानां तदाश्रयस्थितत्रसकायानां वा विराधनं भवत्येव, हस्तौ पादौ वा लूषितौ भवेताम् , तेन संयमात्मविराधना भवति । संक्रमे-काष्ठेष्टकादिछिद्रान्तरे प्रविष्टः सर्पादिम्रियते । आलम्बने दवरिकालम्बनेन मार्गोल्लङ्घने पतनादिना भूमिगतजीवविराधना भवति, देहपीडा वा भवति तेन संयमात्मविराधनासंभवः । यस्मादेते दोषा भवन्ति तस्मात् पदमार्गादिकं भिक्षुर्न स्वयं कुर्यात् न वा परद्वारा कारयेत् , कुर्वन्तं कारयन्तं वा नाऽनुमोदेत इति ॥ सू० १० ॥ सूत्रम्-जे भिक्खू दगवीणियं सयमेव करेइ करेंतं वा साइज्जइ ॥ छाया-यो भिक्षुरुदकवीणिकां स्वयमेव करोति कुर्वन्तं वा स्वदते ॥ सू० ११ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः ‘दगवीणिय' उदकवीणिकां जलप्रणाली वसतितो जलनिःसारणार्थम् 'सयमेव करेइ' स्वयमेव करोति-संपादयति । For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy