SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसूत्रे भावपूतिकं च द्विप्रकारकं भवति सूक्ष्म-बादरं च । तत्र-इन्धनं दारुकम् , तस्य धूमःइन्धनधूमः, स चाऽऽधाकर्मिके भोजने रध्यमाने लोकानां प्राणप्रदेशं स्पृशति तेन छिवका जायते, ततः सर्व प्रतिकं भवति । गन्धपुद्गलैर्वा छिक्का भवति ततः सर्व प्रतिकं भवति । अथवाधूमगन्धवर्जितैः सूक्ष्मावयवैश्छिक्का, ततः सर्व पूतिकं भवतीत्येतत् सूक्ष्मं पूतिकम् । ___बादरं त्रिप्रकारं भवति आहारे, उपधौ, शय्यायां च । तत्राहारपूतिकं चतुर्विधम् अशनादिभेदात् । आधाकर्मिकाद्याहारकणेनापि संसृष्टमाहारजातमाहारपतिकम् १। उपधिप्तिकं द्विप्रकारकम्-वस्त्रे पात्रे च । तत्र-वस्त्रं जांगिकादिपश्चप्रकारकभेदात् पञ्चविधम् । पात्रम्-अलाबूदारु- मृत्तिकाभेदात् त्रिविधं ग्राह्यम् । धातुनिर्मितं सम्प्रतिकालप्रसिद्धं सेलोलाइटादिनिर्मितं सर्वमग्राह्यम् । ततश्च पात्रपूतिकमपि त्रिविधम् । तत्र वस्त्रे-आधाकर्मकृतेन सूत्रेण सीव्यति, थिग्गलं वा ददाति । पात्रेऽपि-आधाकर्मकृतेन सूत्रेण सीव्यति-संयोजयति थिग्गलं वा ददाति । वसतिपूतिकम्-शुद्धवसतौ आधाकर्मिकवंशकाष्ठप्रस्तरादिसंमेलनम् । यथा-वसतिनिर्माणे षट् काष्ठादीनि प्राशुकानि सप्तमं किमपि वास्तुद्रव्यं चाऽऽधाकर्मिकं संयोजितं भवेत्तद् वसतिपूतिकं कथ्यते । विशेषतो यथाशास्त्रं ज्ञातव्यम् ॥ सू० ६०॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थिनिर्मापक-वादिमानमर्दक- श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायां प्रथम उद्देशकः समाप्तः ॥१॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy