SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० निशिथसूत्रे नाऽसमानजातीयकं चोलपट्टादिकं वस्त्रं सार्धमासादधिकं साधैकमासादधिककालपर्यन्तं धरतिधारयति, यद्वा-धरन्तमनुमोदते स श्रमणः तीर्थकृतामाज्ञाभङ्गादिदोषभागी भवतीति । तथाअनवस्थादोषम्-आत्मसंयमविराधनादोषं च प्राप्नोति, अतः सलक्षणादिवस्त्रस्य मार्गणं कर्त्तव्यम् । तत्राऽपलक्षणोपधेर्धारणे-यस्मात्- ज्ञानदर्शनचारित्राणां विनाशो भवति, तस्मात्-अलक्षणयुतं वस्त्रं न धारयितव्यम् , किन्तु-सविधिवस्त्रस्य मार्गणा कर्तव्या । तत्र यथाकृतवस्त्रग्रहणे मासचतुष्टयं यावत्-अन्वेषणं कर्त्तव्यम् १, अन्यपरिकर्मितग्रहणे मासद्वयं यावत् मार्गणं कर्त्तव्यम्-२, ततः परं सार्धमासपर्यन्तं सपरिकर्मितं वस्त्रं मार्गयेत् ३, एवंप्रकारेण कृतेऽपि मार्गणे सलक्षणादिकमन्यदोषरहितं वस्त्रं यदि न मिलेत् , तदा तावत्पर्यन्तं मार्गणं कर्त्तव्यम् यावत्पर्यन्तमन्यत्सलक्षणं सर्वदोषरांहतं वस्त्रं न मिलेत् ॥ सू० ५८॥ सूत्रम्--जे भिक्खू गिहधूमं अण्णउत्थिएण वा गारथिएण वा परिसाडावेइ परिसाडावेतं वा साइज्जइ ॥ सू० ५९ ॥ - छाया-यो भिक्षुः गृहधूमं अन्ययूथिकेन वा, गृहस्थेन वा परिशाटयति परि, शाटयन्तं वा स्वदते ॥ सू० ५९॥ - चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'गिडधूम' गृहधूमम् गृहं वसतिर्यत्र साधवस्तिष्ठन्ति, तस्मिन् गृहे वसतौ धूमं रोगाद्युपशामकगुग्गुलादिज्वालनाज्जायमानम् 'अण्णउत्थिएण वा' अन्ययूथिकेन वा परतीथिकेन वा, 'गारथिएण वा' गृहस्थेन वा-येन केनचित् वा परिसाडावेई' परिशाटयति-गृहादिकं पिधाय तदन्तधूमं निरुध्य प्रसारयति, सर्वतो विस्तारयति 'परिसाडावेत वा साइज्जई' परिशाटयन्तं-इतस्ततो धूपयन्तं वा स्वदतेऽनुमोदते स प्राग्वत् प्रायश्चित्तभाग्भवति ॥ सू० ५९॥ सूत्रम्-जे भिक्खू पूइकम्मं मुंजइ भुंजंतं वा साइज्जइ, तं सेवमाणे आवज्जइ मासियं परिहारट्ठाणं अणुग्घाइयं ॥ मू० ६०॥ ॥ णिसीहज्झयणे पढमो उद्देसो समत्तो ॥१॥ छाया-यो भिक्षुः पूतिकर्म भुङ्क्ते भुञ्जन्तं वा स्वदते, तं सेवमान आपद्यते मासिकं परिहारस्थानमनुद्घातिकम् ।।सू० ६० ॥ ॥ निशीथाध्ययने प्रथम उद्देशः समाप्तः ॥१॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy